________________
तस्वसङ्ग्रहः।
एवमित्यादिशब्दानां नैवमित्यादि विद्यते।
अपोखमिति विस्पष्ट प्रकारान्तरलक्षणम् ॥ १९८४ ॥ एवमेतत्रैवमिति प्रकारान्तरमारोपितमेवमित्यादिशब्दैर्व्यवच्छिद्यमानं स्फुटतरविसीयत एवेति नाव्यापिता शब्दार्थव्यवस्थायाः ॥ ११८४ ॥
एवं कुमारिलेनोक्तं दूषणं प्रतिविहितम् , इदानीमुद्योतकरोक्तं प्रतिविधीयते । तत्र यदुक्तं "सर्वशब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्प्यते" इति । तत्राह-व्यवहारोपनीते चेत्यादि ।
व्यवहारोपनीते च सर्वशब्देऽपि विद्यते। .
व्युदास्यं तस्य चार्थोऽयमन्यापोहोऽभिषित्सितः॥१९८५॥ अत्रापि ज्ञेयादिपदवत्केवलस्य सर्वशब्दस्याप्रयोगाद्वाक्यस्थस्यैव नित्यं प्रयोग इति यदेव मूढमतेराशङ्कास्थानं तदेव निवर्त्यमस्ति । अभिधित्सित इति । अमिधातुमिष्टः॥ ११८५ ॥ कोऽसावर्थोऽमिधातुमिष्ट इत्याह-सर्वे धर्मा इत्यादि।
सर्वे धर्मा निरात्मानः सर्वे वा पुरुषा गताः।
सामस्त्यं गम्यते तत्र कश्चिदंशस्त्वपोयते ॥ १९८६ ॥ कोऽसावंशोऽपोह्यत इत्याह केचिदेवेति ।
केचिदेव निरात्मानो बाया इष्टा घटादयः।
गमनं कस्यचिच्चैवं भ्रान्तिस्तद्विनिवर्तते ॥ ११८७ ॥ एकाधसर्वमिति चेदित्यादावाह सर्वाङ्गप्रतिषेधश्चेत्यादि ।
सर्वाङ्गप्रतिषेधश्च नैव तमिन्विवक्षितः।
खार्थापोहप्रसङ्गोऽयं तस्मादज्ञतयोच्यते ॥ ११८८ ॥ यदि हि सर्वस्याङ्गस्य प्रतिषेधः तस्मिन्व्यवहारोपनीते वाक्यस्थे सर्वशब्दे विवक्षितः स्यात्तदा स्वार्थापोहः प्रसज्यते । यावता यदेव मूढधिया शङ्कितं तदेव निषिध्यत इति कुतः स्वार्थापवादित्वदोषप्रसङ्गः।एवं ह्यादिशब्देष्वपि वाच्यम् ११८८ यबोकं "किंभावोऽथवाऽभाव” इत्यादि, तत्राह-न भाव इत्यादि ।
न भावो नापि चाभावोऽपृथगेकवलक्षणः। नाश्रितानाश्रितोऽपोहो नैकानेकच वस्तुतः ॥ १९८९ ॥