________________
पलिकासमेतः।
३५९ यदुकमपोझकल्पनायां चेत्यादि तत्राह-अपोह्येत्यादि ।
अपोखकल्पनायां च वरं वस्त्वेव कल्पितम् । इत्येतद्व्याहतं प्रोक्तं नियमेनान्यवर्जनात् ॥ ११७९॥. वस्त्वेव कल्प्यते तत्र यदेव हि विवक्षितम् । .
क्षेपो विवक्षितस्यातो न तु सर्व विवक्षितम् ॥ ११८०॥ वस्त्वेवेत्यादि । वस्त्वेव ह्यध्यवसायवशाच्छब्दार्थत्वेन कल्पितमस्मामिर्यदेव हि विवक्षितं, नाषस्तु। तेन तत्प्रतीतौ सामर्थ्यादविवक्षितस्याक्षेपो व्यावृत्तिरवगम्यत एवेति नाव्यापिनी शब्दार्थव्यवस्था। यदेव च मूढमतेराशङ्कास्थानं तदेवाधिकृत्योक्तमाचार्येण "अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमान”मिति ॥ ११७९॥ ११८०॥ जानाकारनिषेधाचेत्यादावाह-ज्ञानाकारेत्यादि ।
ज्ञानाकारनिषेधस्तु खवेद्यस्वान्न शक्यते। विद्यते हि निरालम्बमारोपकमनेकधा ॥ १९८१ ॥ ज्ञानस्यात्मगतः कश्चिनियतः प्रतिगोचरम् । अवश्याभ्युपगन्तव्यः खभावश्च स एव च ॥ १९८२ ॥ अस्माभिरुक्त आकारः प्रतिबिम्बं तदाभता ।
उल्लेखः प्रतिभासश्च संज्ञाभेदस्त्वकारणम् ॥ ११८३ ॥ न शक्यत इति । कर्तुमिति शेषः । कथं स्वसंवेद्यत्वं सिद्ध ज्ञानाकारस्येत्याहविद्यते हीत्यादि । स्वमादिष्वर्थमन्तरेणापि निरालम्बनमागृहीतार्थाकारमारोपकं शानमागोपालमतिस्फुटमेव खसंवेदनप्रत्यक्षसिद्धम् । नच देशकालान्तरावस्थितोऽर्थस्तेन रूपेण संवेद्यत इति युक्तं वक्तुं, तस्य तद्रूपाभावात् । न चान्येन रूपेणान्यस्य सं. वेदनं युक्तमतिप्रसङ्गात् । किंचावश्यं तद्भवद्भिर्ज्ञानस्यात्मगतः कश्चिद्विशेषोऽर्थकतोऽभ्युपगन्तव्यो येन बोधरूपतासाम्येऽपि प्रतिविषयं नीलस्यैव संवेदनं न पीतस्येति विभागेन विभज्यते ज्ञानम् । तदभ्युपगमे च सामर्थ्यात्साकारमेव ज्ञानमभ्युपगतं स्यात् । आकारव्यतिरेकेणान्यस्य स्वभावविशेषत्वेनावधारयितुमशक्यत्वात् । अतो भवता खभावविशेष इति स एव शब्दान्तरेणोक्तेः, अस्मामिस्त्वाकार उल्लेख इत्यादिना शब्देनेति केवलं नानि विवादः ॥ ११८१ ॥ ११८२ ॥ ११८३ ॥
एवमित्यादिशब्दानामित्यादावाह-एवमित्यादिशब्दानामित्यादि ।