________________
१५८
तत्त्वसङ्ग्रहः। यन्ति ते कि विज्ञेया इति संशयोद्भूतौ सत्यामिदमुच्यते-क्षणिकत्वाविरूपेण शेयाः सर्वधर्माः, ते च सर्वज्ञज्ञानविज्ञेया, अभावा विज्ञेया इति । अत्र यदक्षणिकत्वादिना शेयत्वादिरूपमारोपितं धर्मेषु तन्निवर्त्यते ॥ ११७३ ॥ ११७४ ॥ कथं तद्वचनमात्रेण निवर्चयितुं शक्यत इत्येतदाह -तादृगित्यादि ।
तागज्ञेयत्वमस्तेषां क्षणिकत्वादिसाधनात् ।
शेयोऽभावोऽपि संवृत्त्या स्थापनादमुनाऽऽत्मना ॥११७५॥ .. तादृगिति । क्षणिकत्वादिरूपेण तस्य प्रमाणसिद्धत्वात् । अथाभावस्स कथं सेयत्वं सिद्धमित्यत आह-ज्ञेय इत्यादि । अमुनाऽऽत्मनेति । अभावरूपेण । अवस्तूनामपि कथंचिदुद्ध्या व्यवस्थापनादस्ति ज्ञेयत्वम् , अन्यथा तत्र व्यवहार एव. न स्वादिति भावः ॥ ११७५ ॥
ननु च किमनित्यत्वेन शब्दाः प्रमेया आहोखिनेति प्रस्तावे प्रमेया इति प्रयोगे तत्र या प्रकरणानमिजस्तस्यापि प्रतिपत्तुः प्रमेया इति केवलशब्दश्रवणात्प्लवमानरूपा शब्दादिषु बुद्धिरुपजायत एव, तद्यदि केवलस्य शब्दस्यार्थो नास्त्येव तत्कथमर्थप्र. तिपत्तिर्भवतीत्यत आह-प्रमेयज्ञेयेत्यादि ।
प्रमेयज्ञेयशब्दादेः प्रतिपत्तिनिमित्तताम् । इत्थं वाक्यस्थितस्यैव दृष्ट्वा कालान्तरेष्वपि ॥ ११७६ ॥ केवलस्योपलम्भे या प्रतीतिरुपजायते । प्लवमानार्थभेदेषु सा तद्वाक्यानुसारतः ॥ ११७७॥ घटादिभ्योऽपि शब्देभ्यः साऽस्त्येव च तथाविधा।
तस्माद्धटादिशब्देन ज्ञेयादिध्वनयः समाः ॥ १९७८ ॥ अयमत्र समुदायार्थः-नैव केवलशब्दश्रवणादर्थप्रतिपत्तिरस्ति, किंतु वाक्येषूपलब्धस्वार्थवतः शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणादर्थप्रतिपत्त्यमिमानः । तथाहि-येष्वेव वाक्येषु प्रमेयशब्दमुपलब्धवान्श्रोता तदर्थेष्वेव सा बुद्धिरप्रतिष्ठितार्था लवमानरूपा समुपजायते । तच्च घटादिशब्दानामपि तुल्यम् । तथाहि-कि घटेनोदकमानयान्युताजालिनेति प्रस्तावे घटेनेति प्रयोगे प्रस्तावानमिज्ञस्य यावत्सु माक्येषु घटेनेति प्रयोगो दृष्टस्तावतामर्थेष्वाकासावती पूर्ववाक्यानुसारादेव प्रतिपचिर्भवति (इति) । तस्माद्यथाऽर्थवादिशब्दा विशिष्टार्थवचनातथा प्रमेयादिशब्दा अपीति दर्शयति-तस्मादित्यादि ॥ ११७६ ॥ ११७७ ॥ ११७८ ॥