________________
पखिकासमेतः।
३१७ तत्र हि वाक्यस्थेन प्रमेयादिशब्देन यदेव जडचेतोमिः मन्दमतिमिराशपते तदेव निवर्यंत इत्यतोऽसिद्धमेतत्प्रमेयादिशब्दानां निवर्त्य नास्तीति । अन्यथेति । यदि जडधीमिराशङ्कितं न निवर्तयेदित्यर्थः । स्यादेतत्-न हि श्रोत्रा किंचिच्छतितमित्याह-किश्चिद्धीयादि । यदि हि श्रोता न कचिदर्थे संशेते तत्किमिति परस्मादुपदेशमपेक्षते निश्चयार्थ हि परं पृच्छति, अन्यथोन्मत्तः स्यात् । स्यादेतत् यदि नाम श्रोतुराशङ्कास्थानमस्ति, तथापि तच्छब्देन न निवर्त्यतएवेत्याहअतत्संस्कारकमित्यादि । तस्य श्रोतुरज्ञानादिनिवृत्तिलक्षणसंस्कारः तत्संस्कारः -न विद्यते तत्संस्कारो यस्मिन्शब्द इति तदतत्संस्कारकं । शेषाद्विभाषेति का । अवनिति । प्रतिपादकः । स्वस्थधीः कथमिति । उन्मत्तक एव स्थावित्यर्थः । श्रोतृसंस्कारायैव शब्दानां प्रयोगात् ॥ ११६९ ॥ ११७० ।।
अत्र कस्मिन्वाक्ये किं तन्मूढमतेराशङ्कास्थानं यन्निवर्त्यत इत्याह-चक्षुर्ज्ञानादिविज्ञेयमित्यादि।
चक्षुर्ज्ञानादिविज्ञेयं रूपादीति यदुच्यते ।
तेनारोपितमेतद्धि केनचित्प्रतिषिध्यते ॥ ११७१ ॥ तेनेति । चक्षुर्ज्ञानादिविज्ञेयं रूपादीत्यनेन वाक्येन ॥ ११७१ ॥ किं तदारोपितमित्याह-न चक्षुराश्रितेनैवेत्यादि ।
न चक्षुराश्रितेनैव रूपं नीलादि वेद्यते ।
किन्तु श्रोत्राश्रितेनापि नित्येनैकेन चेतसा ॥ १९७२ ॥ श्रोत्राश्रितेनापि नित्येन चेतसा नीलादिरूपं वेद्यत इत्येवं यन्मन्दधिया"" समारोपितं तबक्षुर्विज्ञानविज्ञेयं रूपमित्यनेन वाक्येन निषिध्यते । चक्षुराश्रितविज्ञानविशे. यमेव रूपं न श्रोत्रादिविज्ञानविज्ञेयमित्यर्थः ।। ११७२ ॥
क्षणिकत्वादिरूपेण वि(किं ?)ज्ञेया इति विभ्रमे । सर्वज्ञज्ञानविज्ञेया धर्माश्चैते भवन्ति किम् ॥ ११७३ ॥ अभावा अपि किं ज्ञेया न ज्ञानं जनयन्ति ये।
इत्यादिविभ्रमोद्भूतौ विज्ञेयपदमुच्यते ॥ ११७४ ॥ एवं सर्वधर्माः किं क्षणिकत्वादिरूपेण विज्ञेया? आहोखिन्न ?, किंवा सर्वज्ञचेतसा माहा ? उताहो न?, अभावा हि सर्वोपाख्याविरहलक्षणा ये ज्ञानमपि न जन