________________
३५६
तत्त्वसङ्ग्रहः ।
शाग्दा इति । वितथविकल्पाभ्यासवासनाप्रभवतया हि केचन शाब्दाः प्रत्यया में. सबूतामिनिवेशिनो जायन्त एवेति न तशाद्वस्तूनां सदसत्ता सिद्ध्यति॥११६५॥ यदुक्तं "प्रमेयज्ञेयशब्दादे"रित्यादि, तत्राह-प्रमेयेत्यादि ।
प्रमेयज्ञेयशब्दादौ कस्यापोथं न विद्यते।
नबसौ केवलोऽकाण्डे प्रेक्षावद्भिः प्रयुज्यते ॥ ११६६ ॥ कस्य प्रमेयादिशब्दस्यापोह्यं नास्तीत्यभिधीयते, यदि तावदवाक्यस्थं केवलं पदान्तरसम्बन्धरहितं प्रमेयादिशब्दमाश्रित्योच्यते, तदा सिद्धसाध्यता, केवलस्य प्रयोगाभावादेव निरर्थकत्वात् । तदर्शयति-नह्यसौ केवलोऽकाण्ड इति । केवल इति । अन्यशब्दरहितः । अकाण्ड इति । प्रस्तावमन्तरेण । यतः श्रोतृजनानुग्रहाय प्रेक्षावद्भिः शब्दः प्रयुज्यते, न व्यसनितया, नच केवलेन सता श्रोतुरेकस्मिन् सन्देहविपर्यासनिवृत्तिलक्षणोऽनुग्रहः कृतो भवेत् । तथाहि-यदि श्रोतुः कचिदर्थे समुत्पन्नौ संशयविपर्यासौ निवर्त्य निःसन्दिग्धं प्रत्ययमुत्पादयेत्प्रतिपादकः, एवं तेनान्यानुप्रहः कृतो भवेत्। नच केवलेन प्रयुक्तेन तथाऽनुग्रहः शक्यते वक्तुम्॥११६६।।
तस्मात्संशयादिनिवर्त्तने निश्चयोत्पादने च श्रोतुरनुग्रहात् शब्दप्रयोगसाफल्यमिति .. वाक्यस्थस्यैवास्स प्रयोग इति दर्शयति-किन्त्वित्यादि ।
किन्स्वारेकविपर्याससंभवे सति कस्यचित् । कचित्तद्विनिवृत्त्यर्थं धीमद्भिः स प्रयुज्यते ॥ ११६७ ॥ निःसन्देहविपर्यासप्रत्ययोत्पादनादतः।
तेनैव तैः प्रयुक्तेन साफल्यमनुभूयते ॥ ११६८ ॥ आरेक:-संशयः। कस्यविदिति । श्रोतुः। कचिदिति-अर्थे । तद्विनिवृ. त्यर्थमिति । तयोरारेकविपर्यासयोर्विनिवृत्त्यर्थम् । तेनेति । ज्ञेयादिपदेन । तैरिति । प्रेक्षावद्भिः ॥ ११६७ ।। ११६८ ॥
अथ वाक्यस्थमेव ज्ञेयादिशब्दमधिकृत्योच्यते, तदसिद्धमिति दर्शयति यत्तत्रेति।
यसन जडचेतोभिराशकास्पदमिष्यते। तदेव क्षिप्यते तेन विफलोचारणाऽन्यथा ॥ ११६९ ॥ किवियशकमानोऽसौ किमर्थ परिपृच्छति । अतसंस्कारकं शब्दं वन्वा खस्यधीः कथम् ॥ ११७० ।।