SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ पत्रिकासमेतः । ३५५ पोया वाक्यार्थस्यापि त एवेत्यत आह-तेभ्योऽन्यो नैव सोऽस्तीति । नहि पदार्थव्यतिरिक्तो निरवयवः शबलात्मा वा कल्माषवर्णप्रख्यो वाक्यार्थोऽस्ति, उप लब्धिलक्षणप्राप्तस्य तादृशस्यानुपलब्धेरिति भावः ॥ ११६० ॥ ११६१ ॥ ." एतदेवोदाहरणेन स्फुटयन्नाह-चैत्रेत्यादि । चैत्र गामानयेत्यादिवाक्यार्थेऽधिगते सति । कर्तृकर्मान्तरादीनामपोहो गम्यतेऽर्थतः ॥ ११६२ ॥ नपस्मिन्वाक्ये चैत्रादिपदार्थव्यतिरेकेण बुद्धावन्योऽर्थः प्रतिवर्त्तते । चैत्रे गर्थगते च सामादचैत्रादिव्यवच्छेदो गम्यते । अन्यथा यद्यन्यकादिव्यवच्छेदो नाभीष्टः स्यात्तदा चैत्रादीनामुपादानमनर्थकमेव स्यात् । ततश्च न किंचित्कश्चिद्व्याहरेदिति निरीहमेव जगत्स्यात् ।। ११६२ ।। अनन्यापोहशब्दादौ वाच्यं न च निरूप्यत इत्यत्राह-अनन्यापोहेत्यादि । अनन्यापोहशब्दादौ न विधिय॑वसीयते । परैरभिमतः पूर्व जात्यादेः प्रतिषेधनात् ॥ ११६३ ॥ नपत्र भवदमिमतो जात्यादिलक्षणो विधिरूपः शब्दार्थः परमार्थतोऽवसीयते, तस्य जात्यादेः पूर्व-सामान्यपरीक्षादौ विस्तरेण निषिद्धत्वात् ॥ ११६३ ॥ किं तवसीयत इत्याह--किन्त्वियादि । किन्तु विध्यवसाव्यमाद्विकल्पो जायते ध्वनेः । पश्चादपोहशब्दार्थनिषेधे जायते मतिः ॥ ११६४ ॥ यद्यपोहशब्दार्थनिषेधे मतिर्जायत इतीप्यते, न तर्षपोहशब्दार्थोऽभ्युपगन्तव्यः, तस्य निषिद्धत्वादित्यत आह–स त्वसंवादकस्तादृगिति । स वसंवादकस्तादृग्वस्तुसम्बन्धहानितः। न शान्दाः प्रत्ययाः सर्वे भूतार्थाध्यवसायिनः ॥ ११६५ ॥ स इति । अनन्यापोहशब्दादिः । असंवादक इति । न संवदतीत्यसंवादकः, न विद्यते वा संवादोऽस्त्यसंवादकः । कस्मात् ? वस्तुसम्बन्धहानितः तथाभूतव. स्तुसम्बन्धाभावात् । पूर्व हि जात्यादिलक्षणस्य शब्दार्थस्य वस्तुनो निषिद्धत्वात् । ययेवं कथं तनिन्यापोहशब्दादिभ्योऽपोहशब्दार्थनिषेधे मतिर्जायत इत्याह-न
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy