________________
३.५४
तवसङ्ग्रहः ।
1
तस्य विधेर्निषेधः । निषेधायापरस्तस्येति । तृतीयनम्प्रतिपादितस्य विधिरहितस्य निषेधायेत्यर्थः । तुरीय इति । चतुर्थः । चतुरस्थयतावाद्यक्षरलोपश्चेत्यनेन पूरणार्थे यत्प्रत्ययविधानात् । तस्मिन्विवक्षित इति । तस्मिंश्चतुर्थे नमि प्रयुक्ते इत्यर्थः । तेनेति । चतुर्थेन नमा । ज्ञाप्यतेऽन्यनिवर्त्तनमिति । तृतीयनम्प्रतिपादितनिषे-' धविवेकेन विधिरूपस्यार्थप्रतिबिम्बकस्य प्रतिपादनात् ॥ ११५४ | | ११५५ ॥ ११५६ ॥ एतदेवोदाहरणेन स्फुटीकुर्वन्नाह - नासौ न पचतीत्यादि ।
नासौ न पचतीत्युक्ते गम्यते पचतीति हि । औदासीन्यादियोगश्च तृतीयेन हि गम्यते ॥ ११५७ ॥ तुर्ये तु तद्विविक्तोऽसौ पचतीत्यवसीयते । तेनात्र विधिवाक्येन सममन्यनिवर्त्तनम् ॥ ११५८ ॥
द्विविऽसाविति । औदासिन्यादिविविक्तः । विधिवाक्येन सममन्यनिवर्त्तमिति । यथा पचतीत्यादौ विधिवाक्ये सामर्थ्यादौ दासिन्यविनिवृत्तिरिष्यते तथा द्वितीयेऽपि नमीति सिद्धमत्राप्यस्य निवर्त्तनम् । स्पष्टार्थं तु नचतुष्टयोदाहरणम् ।। ११५७ ।। ११५८ ॥
चादीनामपि न योगो नैवास्तीत्यत्राह - समुच्चयादिरित्यादि । समुच्चयादिर्यचार्थः कचिचादेरभीप्सितः ।
तदन्यस्य विकल्पादेर्भवेत्तेन व्यपोहनम् ॥ ११५९ ॥ आदिशब्देन वाशब्दस्य विकल्पोऽर्थः, अपिशब्दस्य पदार्थसम्भावनान्ववसर्गादयः, तुशब्दस्य विशेषणम्, एवकारस्यावधारणमित्यादेर्ब्रहणम् । तदन्यस्येति । तस्मात्समुच्चयादेरन्यस्य । तेन चादिना ॥ ११५९ ॥
“वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यत" इत्यत्राह वाक्यार्थ इत्यादि । वाक्यार्थेऽन्यनिवृत्तिश्च सुज्ञातैव तथा यसौ ।
पदार्था एव सहिताः केचिद्वाक्यार्थ उच्यते ॥ ११६० ॥ तेषां च ये विजातीयास्तेऽपोह्याः सुपरिस्फुटाः । वाक्यार्थस्यापि ते चैव तेभ्योऽन्यो नैव सोऽस्ति हि ॥ ११६१ ॥ सहिता इति । परस्परं कार्यकारणभावेन सम्बद्धा इत्यर्थः । तेषामिति । पदार्थानाम् । ननु पदार्थोऽन्योऽन्यस्तुवाक्यार्थः, तत्कथमुच्यते य एव पदार्थानाम