________________
पविकासमेतः। तद्यद्यप्यसौ निरुपाख्यः परमार्थतस्तथापि भ्रान्तः प्रतिपत्तृमिर्बाह्यवस्तुरूपतया व्यवसितत्वादसावपोहः सोपाख्यत्वेन भातीति । अत्राह-ततः किमिति। यदि नामासौ सोपाख्यत्वेन भाति तथाऽपि किमत्र प्रकृतार्थानुकूलं जातमिति । अत्र पर आह"तुल्यधर्मत्वं वस्तुभिश्चास्य गम्यत इति । तेन, यथा वस्तु निष्पन्नरूपं प्रतीयते तथाऽपोहोऽपि वस्तुमिस्तुल्यधर्मतया ख्यातो निष्पन्न इव प्रतीयत इति सिद्धं निपनत्वादिति वचनम् ॥ ११५० ॥ ११५१ ॥
यद्येवं भवतैव साध्यत्वप्रत्ययस्य भूतादिप्रत्ययस्य च निमित्तमुपदर्शितमिति नच वक्तव्यमेतनिनिमित्तं प्रसज्यत इति, तदेतद्दर्शयन्नाह साध्यत्वप्रत्ययस्तस्मादि. त्यादि।
साध्यत्वप्रत्ययस्तस्मात्तथाभूतादिरूपणम् ।
वस्तुभिस्तुल्यरूपत्वात्तन्निमित्तं प्रसज्यते ॥ १९५२ ॥ तन्निमित्तमिति । वस्तुमिस्तुल्यधर्मत्वावसायनिमित्तम् ॥ ११५२ ।। । यदुक्तम्-"विध्यादावर्थराशौ च नान्यापोहनिरूपणम्” इति, तत्राह-विध्यादावित्यादि।
विध्यावावर्थराशौ च नास्तितादि निषिध्यते ।
सामर्थ्यान्न तु शब्देन यदेव न विवक्षितम् ॥ ११५३ ॥ विध्यादेरर्थस्य निषेधादिव्यावृत्ततयाऽवस्थितत्वात्तत्प्रतिपत्तौ सामर्थ्यादविवक्षित नास्तिसादि निषिध्यत इत्यस्येवात्राप्यन्यापोहनिरूपणम् ॥ ११५३ ॥ "नमश्चापि नषा युक्ता वित्यत्राह-नञश्चापीत्यादि ।
नत्रश्चापि नत्रा युक्तावपोहस्तादृशो भवेत्। तचतुष्टयसद्भावे यादृशः संप्रतीयते ॥ ११५४ ॥ नमा योगे नत्रो बर्थो गम्यते कस्यचिद्विधिः । तृतीयेन नत्रा तस्य विरहः प्रतिपाद्यते ॥ ११५५ ॥ निषेधायापरस्तस्य तुरीयो यः प्रयुज्यते ।
तस्मिन्विवक्षिते तेन ज्ञाप्यतेऽन्यनिवर्तनम् ॥ ११५६ ॥ तश्चतुष्टयसद्भाव इति । नञ्चतुष्टयसद्भावे । कीदृशोऽसौ प्रतीयत इत्याहनमा योग इत्यादि । अर्थशब्दो विधिशब्देन सम्बन्धनीयः । तस्य विरह इति ।