SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ३५२ . तत्त्वसाहा। तथाहीत्यादिना तमेव सामर्थ्यगम्यमनभीष्टव्यवच्छेदं दर्शयति । " तथाहि पचतीत्युक्ते नोदासीनोऽवतिष्ठते । मुझे दीव्यति वा नेति गम्यतेऽन्यनिवर्त्तनम् ॥ ११४६ ॥ औदासीन्यमतश्चैवमस्त्यन्यच क्रियान्तरम् । पर्युदासात्मकापोखं नियतं यद्यदिष्यते ॥ ११४७॥ तस्मात्पचतीत्येतस्यौदासीन्यमन्यच्च भुङ्क्ते दीव्यति चेत्यादिक्रियान्तरपदासात्मकमपोहमस्ति, तेन, यदुक्तं-पर्युदासरूपं हि निषेध्यं तन्न विद्यत इति तदसिद्धम् । पर्युदासात्मकापोह्यमिति । पर्युदासात्मकं च तदपोह्यं चेति विग्रहः । नियतं यद्यदिष्यत इति । तस्य तस्यौदासीन्यादिपर्युदासात्मकमपोह्यमस्तीति सम्बन्धः।।११४६।। ॥ ११४७ ॥ यञ्चोक्तं "पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठती"ति । तत्र स्ववचनव्याघातं परव प्रतिपादयन्नाह-पचतीत्यादि। पचतीत्यनिषिद्धं तु खरूपेणैव तिष्ठति। ... इत्येतच भवद्वाक्यं परस्परपराहतम् ॥ ११४८॥ ... अन्यरूपनिषेधोऽयं स्वरूपेणैव तिष्ठति । इत्यन्यथा निरर्थ स्यात्प्रयुक्तमवधारणम् ॥ ११४९॥ . कथं पुनरेतत्परस्परपराहतमित्याह-अन्यरूपनिषेधोऽयमित्यादि । पचतीत्येतस्वार्थस्वरूपेणैव तिष्ठतीत्यनेनावधारणेनाचरितरूपं दर्शयता पचतीत्येतस्यान्यरूपनिषेधेनात्मस्थितिरिति दर्शितं भवति । अन्यथा स्वरूपेणैवेत्येतदेवावधारणं भवत्प्रयुक्तमनर्थकं स्यात् , व्यवच्छेद्याभावात् ॥ ११४८ ॥ ११४९ ॥ .. यदुक्तं-"साध्यत्वप्रत्ययश्चात्रे”त्यादि, तत्राह-निष्पन्नत्वमित्यादि । निष्पन्नत्वमपोहस्य निरुपाख्यस्य कीदृशम् । गगनेन्दीवरादीनां निष्पत्तिर्नहि काचन ॥ ११५० ॥ वस्वित्यध्यवसायाचेत्सोपाख्याखेन भात्यसौ। ततः किं तुल्यधर्मस्वं वस्तुभिश्चास्य गम्यते ॥ ११५१ ॥ यद्यपोहो भवता निरुपाख्यखभावतया गृहीततत्कथमिदमुच्यते निष्पन्नत्वादिति, महाकाशोत्सादीनां काचिदस्ति निष्पत्तिः । सर्वोपाख्याविरहलक्षणत्वाचेषां स्मादे
SR No.010566
Book TitleTattvasangraha 01
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherCentral Library
Publication Year1926
Total Pages832
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy