________________
पखिकासमेतः ।
K
नोपकल्पितत्वात् । अतो नासिद्धो हेतुः । तथाहि — बहुत्वैकत्वादिसङ्ख्या न वस्तुगतभेदाभेदलक्षणा, दाराः सिकता वर्षा इत्यादावसत्यपि वस्तुतो भेदे बहुत्वसङ्ख्या परिवर्त्तते । तथा वनं त्रिभुवनं जगत् षण्णगरीत्यादिष्वसत्यप्यभेदेऽर्थस्यैकअवसङ्ख्या व्यपदिश्यत इति । अतो नासिद्धता हेतोः । नाप्यनैकान्तिकः सर्वस्य सर्वधर्मत्वप्रसङ्गात् । सपक्षे भावाच्च न विरुद्धः ॥ ११३४ ॥ 1 नन्वित्यादिना कुमारिलमतेन हेतोरसिद्धतामाशङ्कते ।
ननु व्यक्तौ च जातौ च दारादिश्चेत्प्रयुज्यते । व्यक्तेरवयवानां वा संख्यामादाय वर्त्तते ।। ११३५ ॥ वनशब्दः पुनर्व्यक्तीर्जातिसङ्ख्याविशेषिताः । बहीराहाथवा जातिं बहुव्यक्तिसमाश्रिताम् ॥ ११३६ ॥
सलाह – दारादिशब्दः कदाचिज्जातौ प्रसज्यते कदाचिद्व्यक्तौ । तत्र यदा जातौ तदा व्यक्तिगतां सङ्ख्यामादाय वर्त्तते, व्यक्तयश्च बह्वयो योषितः, यदा व्यक्तौ प्रयुज्यते तदा तद्व्यक्त्यवयवानां पाणिपादादीनां बहुत्वसङ्ख्यामादाय वर्त्तते । वनशब्देन त्वाम्रखदिरपलाशादि विलक्षण व्यक्तयस्तत्समवेतवृक्षत्वजातिगत सङ्ख्याविशिष्टाः प्रतिपाद्यन्ते तेन वनमित्येकवचनं भवति । जातिगतैकसङ्ख्याविशिष्टद्रव्यामि - धानात् । अथवा — धवादिव्यक्तिसमाश्रिता जातिरेव वनशब्देनोच्यते, तेनैकवचनं भवति, जातेरेकत्वादिति ।। ११३५ ।। ११३६ ॥
"
नन्वित्यादिना प्रतिविधत्ते ।
ननु चैतेन विधिना सर्वमेकं वचो हतम् ।
नान्यत्रास्ति विवक्षा चेत् सैवास्त्वस्य निबन्धनम् ॥ ११३७॥ एतेन यथोक्तेन विधिना सर्व – वृक्ष इत्याद्येकवचनं - हतम् — उत्सन्नं स्यात्, सर्वत्रैवास्य न्यायस्य तुल्यत्वात् । तथा यत्रापि शक्यमेवं वक्तुम् — तत्र व्यक्तौ च
J
"
जातौ च वृक्षादिश्चेत्प्रयुज्यत इत्यादि । अथ मतम् - अन्यत्र - वृक्षादौ, व्यक्तेरवयवानां च सङ्ख्याविवक्षा नास्तीति यद्येवं न तर्हि वस्तुगतान्वयाद्यनुविधायिनी सङ्ख्या, विवक्षाया एवान्वयव्यतिरेकानुविधानात् । ततश्च सैव विवक्षा द्वारा इत्यादिध्वस्य बहुवचनस्य निबन्धनमस्तु भेदाभावेप्येकमपि वस्तु बहुत्वेन विवक्ष्यत इत्यतो नासिद्धता हेतोः ॥ ११३७ ॥