________________
३४८
तस्वलङ्घन्छ ।
पूर्व सामान्यपरीक्षायां सामान्य विशेषाणां निरस्तत्वात्, तद्रुपाणां खीत्वादीनामसम्भवादसम्भविलक्षणम् ॥ ११३१ ॥
किंच तेष्वेव सामान्यविशेषेष्वन्तरेणाप्यपरं सामान्यविशेषं जातिर्भावः सामान्यमित्यादि स्त्रीपुन्नपुंसकलिङ्गस्य शब्दस्य प्रवृत्तिदर्शनादव्यापिता च लक्षणस्येति दर्शयति - जातिर्भाव इत्यादि ।
जातिर्भावश्च सामान्यमिति वा तेषु संमतम् ।
न सामान्यानि युज्यन्ते सामान्येष्वपराणि हि ॥ ११३२ ॥ न सामान्यानि युज्यन्ते सामान्येष्वपराणीति । निःसामान्यानि सामान्यानीति सिद्धान्तात् । एतच्च वैशेषिकसिद्धान्ताश्रयेणोक्तम् । यदा तु सामान्येष्वपराणि सामान्यानीष्यन्ते वैयाकरणैः, यथोक्तम् — “अर्थजात्यभिधानेऽपि सर्वे जात्यमिधायिनः । व्यापारलक्षणा यस्मात्पदार्थाः समवस्थिताः || ” नहि शास्त्रान्तरपरिदृष्टा जातिव्यवस्था नियोगतो वैयाकरणैरभ्युपेतव्या । प्रत्ययामिधानान्वयव्यापारकार्यो नीयमानरूपा हि जातयो नहि तासामियत्ता काचित् । अतो यश्चोदितकार्य दर्शनात् सामान्याधारा जातिः सती जातय इत्यस्याः श्रुतेर्निबन्धनमिति । व्यापारलक्षणा इति अभिधानप्रत्ययव्यापारतो व्यवस्थितलक्षणा इत्यर्थः । तदानन्तरोक्तमेव दूषणं "सामान्यस्य निरासेन तेऽपास्ता एव तादृशा" इति ॥ ११३२ ॥
इदं च साधारणं दूषणमाह - अभाव इत्यादि ।
अभावो निरुपाख्यत्वं तुच्छतेत्यादि वा कथम् । सामायिक्येव तेनैषा लिङ्गत्रितयसंस्थितिः ॥ ११३३ ॥
"
नासत्सु शशविषाणादिषु जातिरस्ति वस्तुधर्मत्वात्तस्येत्यतस्तेष्वभावादिशब्दप्रयोगो न प्राप्नोति । तस्मादव्यापिनी लिङ्गव्यवस्था । तेनेच्छारचितसङ्केतमात्रभाविम्येवेयं लिङ्गत्रितयव्यवस्थेति सिद्धम् ॥ ११३३ ॥
:
सङ्ख्याया अपि वस्तुगतान्वयव्यतिरेकानुविधानाभावं दर्शयन्नाह - सङ्ख्यापीत्यादि ।
याऽपि सामायिक्येव कल्प्यते हि विवक्षया । भेदाभेदविवेकेपि दारादिविपिनादिवत् ॥ ११३४ ॥
समापि सामायिक्येव, न वास्तवी । दारादिष्वसत्यपि वास्तवे भेदे विवधानशे