________________
पविकासचेतः
व्यविचारदर्शनाचाव्यापितेति दर्शयन्नाह----अभाव इत्यादि । अभावो निरुपाख्यत्वं तुच्छतेति यदुच्यते । तत्र स्थित्यादिसम्बन्धः कोऽसत्सु परिकल्प्यते ॥ ११२६ ॥ असत्यपि हि स्थित्यादिके शशविषाणादिष्वसद्रूपेष्वभावो निरुपाख्यत्वं तुच्छतेत्यादिभिः शब्दैर्लिङ्गत्रयप्रतिपत्तिदर्शनादव्यापिनीयं लिङ्गव्यवस्था ।। ११२६ ॥ उत्पादः प्रसवश्चैषां नाशः संस्थानमिष्यते ।
आत्मरूपं तु भावानां स्थितिरित्यभिधीयते ॥ ११२७ ॥ तत्रोत्पादे न नाशोऽस्ति तत्किमुत्पत्तिरुच्यते । नात्माकारा स्थितिवास्ति तत्कथं जन्म गीयते ॥ ११२८ ॥ संस्त्याने न द्वयं चान्यत्तत्कथं व्यपदिश्यते । तिरोभावश्च नाशध तिरोभवनमित्यपि ॥ ११२९ ॥ स्थितौ स्थितिः खभावश्च हेतुना केन बोच्यते । अथाविभक्तमेवैषां रूपं स्यादेकलिङ्गता ॥ ११३० ॥
इतचाव्यापिनी, तेष्वेव स्थित्यादिषु प्रत्येकं लिङ्गत्रययोगिशब्दप्रवृत्तिदर्शनात् । तथाहि प्रसव उत्पाद उच्यते संस्त्यानं विनाशः आत्मस्वरूपं तु स्थितिः । तत्र प्रसवे स्थितिसंस्त्यानयोरभावात्कथमुत्पादे उत्पत्तिर्जन्मेत्यादेः स्त्रीनपुंसकलिङ्गस्य प्रवृत्तिर्भवेत् । तथा संस्त्याने स्थितिप्रसवयोरभावात्कथं तिरोभावो विनाशस्तिरो भवनमित्या - दिभिः शब्दैर्व्यपदिश्येत । अपिशब्देन संस्त्यानमित्यपि स्वशब्देन कथं व्यपदिश्यत इति दर्शयति । तथा स्थितौ संस्त्यानप्रसवयोरसम्भवात् स्थितिस्वभावश्चेत्यादिभिः शब्दैः : सा स्थितिः केन हेतुनोच्यत इति वाच्यम् । अथापि स्यादेषां स्थित्यादीनां परस्परमविभक्तरूपत्वात्प्रत्येकमेषु लिङ्गत्रययोग्यता भविष्यतीत्यत आह- अथाविभक्तमित्यादि । यदि ह्येषां परस्परमविभक्तं रूपं स्यात्तदैकमेव परमार्थतो लिङ्गं यात्र लिङ्गत्रयम् ॥ ११२७ ॥ ११२८ ॥ ११२९ ॥ ११३० ॥
अन्यस्त्वाह ——— सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इवेति, तं प्रत्याहत्वादय इवेत्यादि ।
गोरखादय इचैतेऽपि यदि सीत्वादयो मताः । सामान्यस्य विरासेन तेऽपाता एव तादृशाः ॥ ११३१ ॥
२४०