________________
वित्वात् । वतीनामपीत्वपिशब्दापोहस्यापि । प्रयोगः-यो यन्वयव्यतिरेको मानुविषने, नासौ तद्धर्मः, यथा शीतत्वमः, नानुविधये च लिगमावि वास्तु मेऽवयव्यतिरेकाविति व्यापकानुपलब्धिः ॥ ११२२ ॥ नचायमसिद्धो हेतुरिति दर्शयवाह-तटस्तटीत्यादि ।
तटस्तटी तटं चेति नैरूप्यं न च वस्तुनः।
शबलाभासतापाः सर्वेषां तत्र चेतसाम् ॥ ११२३ ॥ यदि हि लिङ्गं वस्तुगतो धर्मः स्यात् , तदैकस्मिंस्तटाख्ये वस्तुनि तटस्तटी तटमिति लिङ्गत्रययोगिशब्दप्रवृत्तेरेकस्य वस्तुनखैरूप्यप्रसङ्गः स्यात् । नचैकस्य स्त्रीपु. अपुंसकाख्यं स्वभावत्रयं युक्तमेकत्वहानिप्रसङ्गात् । विरुद्धधर्माध्यासितस्याप्येकत्वे सर्व विश्वमेकमेव वस्तु स्यात् । ततश्च सहोत्पत्तिविनाशप्रसङ्गः । किंच-सर्वस्यैवैकशब्देन शब्दान्तरेण वा लिङ्गत्रयप्रतिपत्तिदर्शनात्तद्विषयाणां सर्वचेतसां मेचकादिरसवच्छबलाभासताप्रसङ्गः ॥ ११२३ ॥
अथापि स्यात्-सत्यपि लिङ्गत्रययोगित्वे सर्ववस्तूनां यदेव रूपं वामिष्टं प्रतिपादकेन तन्मात्रावभासान्येव विवक्षावशाखेतांसि भविष्यन्तीति न शबलाभासानी. त्यत माह-विवक्षानुगतत्वे वेत्यादि ।
विवक्षानुगतवे वा न स्युस्तद्विषयाणि ते।
तदशादेकरूपाणि नैकरूपं च वस्तु तत् ॥ ११२४ ॥ विवक्षानुगतत्वे का चेतसामिति शेषः । यदि हि विवक्षावशादेकरूपाणि घेतांसि भवन्तीत्यङ्गीक्रियते, तदा तानि चेतांसि त्र्यात्मकवस्तुविषयाणि न प्राप्नुवन्ति, तदापरशून्यत्वात् , चक्षुर्विज्ञानवच्छन्दविषयम् । तद्वशादिति । विवक्षावशात् ॥११२१॥
योऽपि मन्यते संस्थानप्रसवस्थितिषु यथोक्तलीपुन्नपुंसकत्वव्यवस्खेति, तथापि नयुक्तमिलादर्शयमाह-स्थितीत्यादि ।
स्थितिप्रसवसंस्त्यानसंश्रया लिङ्गसंस्थितिः।
यदि स्यादविभामेन विलिङ्गवं प्रसज्यते ॥ ११२५ ॥ लिजसंस्थितियदि स्मादित्यत्र छेदः । यदि हि स्थित्याद्याश्रया लिखितिकिव्यवस्था, तदा तटकादिक्त्सर्वपदार्थेष्वविभागेन त्रीणि लिहानि. प्रामुवन्ति, सवत्र तदादिकल्पित्यादेविधमानत्वात् । अन्यथा तटखटीतटमित्यावावपि लिजात्रयं न स्मत, वियोमानामा । समातिम्यामिला महो। ११२५