________________
पविकासमेतः ।
३४५
उदीरणमिति । प्रयोगः । उक्ताविति । उच्चारणे । तदुक्तम् "अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध्या वा नान्नविषय इति पर्यायता भवेदिति ॥१११७॥ स्यादेतत्-भवत्पक्षेऽप्येकेन शब्देनामिहिते वस्तुनि भेदान्तरे संशयविपर्यासा*भावप्रसङ्गः, शब्दान्तराप्रवृत्तिप्रसङ्गश्च कस्मान्न भवतीत्यत आह-- अस्माकं त्वित्यादि ।
अस्माकं तु न शब्देन बाह्यार्थः प्रतिपाद्यते । शब्दान्न चापि विज्ञानं बाह्यार्थविषयं मतम् ॥ १११८ ॥ यतः सर्वात्मना ताभ्यां विषयीकरणात्परम् । शब्दज्ञानान्तरं तत्र पर्यायत्वं प्रयास्यति ॥ १११९ ॥ ताभ्यामिति । शब्दज्ञानाभ्याम् । परमिति । उत्तरकालम् ॥ १११८ ॥ १११९॥ अथ सांवृते शब्दार्थे कस्मादेष सामानाधिकरण्याभावो दोषो न भवतीत्यत आह - प्रतिबिम्बं त्वित्यादि ।
प्रतिबिम्बं तु शब्देन क्रमेणैवोपजन्यते ।
एकत्वेन च तद्भाति बाह्यत्वेन च विभ्रमात् ॥ ११२० ॥ सामानाधिकरण्यादि प्रतिबिम्बानुरोधतः ।
परमार्थेन शब्दास्तु मता निर्विषया इमे ॥ ११२१ ॥
नीलशब्देन हि प्रथमतरमनीलपदार्थव्यावृत्तमुत्पलादिषु लवमानरूपतया तेषामप्रतिक्षेपकमध्यवसितबाह्यरूपं विकल्पप्रतिबिम्बकमुपजन्यते, पुनरुत्पलश्रुत्या तदेवानुत्पलव्यावृत्तमारोपितबाह्यैकवस्तुस्वरूपमुपजन्यते, तदेवं क्रमेणानीलानुत्पलव्यावृत्तमभ्यवसितबाह्यैकरूपं भ्रान्तं विकल्पप्रतिबिम्बकमुपजन्यत इति तदनुरोघात्सांवृतं सामानाधिकरण्यादि युज्यत एव । परमार्थतस्तु कस्मान्न युज्यत इत्याह - परमार्थेनेत्यादि ॥ ११२० ।। ११२१ ।।
यदुक्तं —“लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यत" इति, अत्राह -लिङ्गसङ्ख्यादीत्यादि ।
लिङ्गसङ्ख्यादियोगस्तु व्यक्तीनामपि नास्त्ययम् । इच्छारचितसङ्केतनिमित्तो नहि वास्तवः ॥ ११२२ ॥ वस्तुधर्मत्वमेषां लिङ्गयादीनामसिद्धम् । स्वतचेच्छाविरचितसङ्केतमात्रभा
r