________________
तरवसनहा। तदेतद्सम्यक् । नहि नीलगुणतजातिसम्बन्धिरूपत्वादन्यदेवोत्पलजातिसम्बन्धिरूपत्वम् , येन नीलोत्पलादिसम्बन्धिरूपत्वामिधाने द्रव्यस्योत्पलत्वजातिसम्बन्धिरूपत्वामिधानं न भवेत् । यावतैकस्माद्रव्याहूयोरपि सम्बन्धिरूपत्वयोरव्यतिरेकात्तद्धतयोरप्येकत्वमेवेत्ययुक्तमेकरूपामिधानेऽपररूपानभिधानम् । किंचाभ्युपगम्योच्यते-- भवतु नामोत्पलत्वसम्बन्धिरूपत्वं नीलतज्जातिसम्बन्धिरूपत्वादन्यत् , तथाप्युत्पलश्रुतिरनर्थकैव । तथाहि-यत्तदनंशं वस्तूत्पलजात्या सम्बद्धं तदेवाभ्यां नीलगुणतजातिभ्यां सम्बध्यते नान्यत् । तच्चानंशत्वात्सर्वात्मना नीलश्रुत्यैवामिहितं शाब्द्या च बुद्ध्या व्यवसायात्मिकया विषयीकृतमिति किमपरमनमिहितमस्य स्वरूपमस्ति यदभिधानायोत्पलश्रुतिः सार्थिका भवेत् ॥ १११३ ॥ १११४ ॥
उद्योतकरस्त्वाह-निरंशे वस्तुनि सर्वात्मना विषयीकृतं नांशेनेत्येष विकल्पो नावतरति, सर्वशब्दस्यानेकार्थविषयत्वात् , एकशब्दस्य चावयववृत्तित्वादिति । तदेतदाशय परिहरति-नचेदित्यादि। .
न चेद्भेदविनिर्मुक्ते काय॑भेदविकल्पनम् । न वाक्यार्थापरिज्ञानादिदं ह्यत्र विवक्षितम् ॥ १११५ ॥ प्रथमेनैव शब्देन सर्वथा तत्प्रकाशितम् ।
नात्मा कश्चित्परित्यक्तो यादृशं तत्तथोदितम् ॥ १११६ ॥ भेदविनिर्मुक्त इति । निरवयवे वस्तुनीत्यर्थः । कार्यभेदविकल्पनमिति । सर्वात्मना विषयीकृतं वैकदेशेनेत्येवं काल्यभेदाभ्यां विकल्पनम् । तदेतद्वाक्यार्थापरिज्ञानादुक्तम् । तथाहि-प्रथमेनैव नीलशब्देन सर्वात्मना तत्प्रकाशिवमित्यस्यायमर्थो विवक्षितः, यादृशं तद्वस्तु तादृशमेवामिहितं, न तस्य कश्चित्खभावस्त्यक्तो यदमिधानायोत्पलश्रुतिर्व्याप्रियेत, निरंशत्वात्तस्य वस्तुन इत्यतो वाक्छलमेतत् ॥ १११५ ॥ १११६ ॥
एवं यथाचोत्पलश्रुतिरनर्थिका तथान्येषामप्यनित्यादिशब्दानां प्रयोगोऽनर्थकः प्राप्नोति, सति प्रयोगे पर्यायत्वमेव स्यात्तरुपादपादिशब्दवदित्यतिदेशं कुर्वनाहएतेनैवेत्यादि ।
एतेनैव प्रकारेण नान्येषामप्युदीरणम् । सफलं तत्र शब्दानामुक्तौ पर्यायता ध्रुवम् ॥ १११७ ॥