________________
पविकासमेतः।
३४५ इति । नहि यत्र संशयो जायते स शब्दार्थों युक्तोऽतिप्रसङ्गात् । नापि निश्चयेन विषयीकृते वस्तुनि संशयोऽवकाशं लभते । निश्चयारोपमनसोर्बाध्यबाधकभावात् । स्यादेतत्-यद्यपि नीलोत्पलशब्दयोरेकस्मिन्नर्थे वृत्ति स्ति, तदर्थयोस्तु गुणजात्योरेकस्मिन्द्रव्ये वृत्तिरस्तीति । अतोऽर्थद्वारकमनयोः सामानाधिकरण्यं भविष्यतीति तदेतदयुक्तमतिप्रसङ्गात् । एवं हि रूपरसशब्दयोरपि सामानाधिकरण्यं स्यात् , तद्र्थयो रूपरसयोरेकस्मिन्पृथिव्यादिद्रव्ये वृत्तेः । किं च नीलमुत्पलमित्येकार्थविषया बुद्धिर्न प्राप्नोति, एकद्रव्यसमवेतयोर्गुणजात्योभभ्यां पृथक्पृथगमिधानात् , न चैकार्थविषयज्ञानानुत्पादे शब्दयोः सामानाधिकरण्यमस्तीत्यलं बहुना ।। ११०९ ॥ ॥ १११०॥
स्यादेतत्-न यदेव नीलगुणतजातिभ्यां सम्बद्ध वस्तु तदेवोत्पलशब्देनोच्यते, किं तर्हि ? अन्यदेव, तेनोत्पलश्रुतिय॑र्था न भविष्यतीत्यत आह-गुणतजातिसम्बद्धादित्यादि ।
गुणतजातिसम्बद्धादन्यदुत्पलजातिमत्।
यदि भिन्नाश्रये स्यातां पुनर्नीलोत्पलश्रुती ॥११११ ॥ यदीत्यवच्छेदः । भिन्नाश्रये स्यातामिति । व्यधिकरणे स्यातामित्यर्थः११११॥
अथापि स्यात्-यद्यपि तदेव द्रव्यं नीलशब्देनोच्यते, उत्पलशब्देनापि तदेव । तथापि नीलशब्दो नोत्पलजातिसम्बन्धिरूपेण द्रव्यमभिधत्ते, किं तर्हि ? नीलगुणतब्बातिसम्बन्धिरूपेणैव, तेनोत्पलत्वजातिसम्बन्धिरूपत्वमस्यामिधातुमुत्पलश्रुतिः प्रवर्तमाना नानार्थका भविष्यतीति तदेतदाशङ्कय परिहरति—अथोत्पलत्वेत्यादि ।
अथोत्पलत्वसम्बन्धिरूपत्वेन न चोदयेत् ।
गुणतजातिसम्बद्धं द्रव्यं नीलमिति ध्वनिः ॥ १११२ ॥ अथ नीलमिति ध्वनिरुत्पलत्वसम्बन्धिरूपत्वेन गुणतज्जातिसम्बद्धं द्रव्यं न चो. दयेदिति सम्बन्धः ॥ १११२॥
स्थानामोत्पलतायोगिरूपत्वमतदात्मकम् । उत्पलत्वेन सम्बद्धं त्वाभ्यां सम्बद्धमेव तत् ॥१११३ ॥ नीलश्रुत्या च तत्प्रोक्तं शाब्धात्र विषयीकृतम् । बुझ्या सर्वात्मना नांशैस्तदनर्थोत्पलश्रुतिः॥ १११४ ॥