________________
३४२
तत्वसाहः। नीलजातिगुणो वाऽपि नीलशब्देन चेद्गतः। अन्येन्दीवरजातिस्तु व्यवसेयोत्पलश्रुतेः ॥ ११०७॥ एवं सति तयोर्भेदारकुलोत्पलशब्दवत् ।
सामानाधिकरण्यादि सुतरां नोपपद्यते ॥ ११०८॥ अन्येन्दीवरजातिस्त्विति । अन्या चासाविन्दीवरजातिश्चेति समासः । व्यवसेयेति । व्यवसातव्या । उत्पलश्रुतेरिति पञ्चम्यन्तम् । अस्मिन्पक्षे सुतरामेव सामानाधिकरण्यमनुपपन्नं बकुलोत्पलशब्दयोरिवैकस्मिन्नर्थे नीलोत्पलशब्दयोवृत्त्यमावात् । नहि भवति बकुलमुत्पलमिति ॥ ११०७ ॥ ११०८॥
स्यादेतत्-नीलशब्दो यद्यपि जातिगुणविशेषवचनः, तथापि तहारेण नीलगुणतजातिभ्यां संबद्धं द्रव्यमपि तेनाभिधीयते तथोत्पलशब्देनापि जातिद्वारेण तदेव द्रव्यमभिधीयत इति । अतस्तयोरेकार्थवृत्तिसम्भवात्सामानाधिकरण्यं भविष्यति, न बकुलोत्पलशब्दयोरित्यत आह-गुणतजातीत्यादि।
गुणतजातिसम्बद्धं द्रव्यं चेत्प्रतिपाद्यते। नीलशब्देन यद्येवं व्यर्था स्यादुत्पलश्रुतिः ॥११०९ ॥ ताभ्यां यदेव सम्बद्धं तदेवोत्पलजातिमत् ।
नीलश्रुत्यैव तत्रोक्तं व्यर्थी नीलोत्पलश्रुतिः ॥१११०॥ गुणश्च नीलाख्यः, तजातिश्च नीलत्वाख्येति गुणतज्जाती, ताभ्यां सम्बद्धमिति विप्रहः । व्यर्था स्यादुत्पलश्रुतिरिति । नीलशब्देनैव तस्य द्रव्यस्य प्रतिपादितत्वात् । एतदेव दर्शयति-ताभ्यामित्यादि । ताभ्यामिति । गुणतजातिभ्याम् । स्यादेतत्-यद्यपि नील शब्देन गुणतजातिमद्रव्यमभिधीयते, तथापि तस्य नीलशब्दस्यानेकार्थवृत्तिदर्शनात्प्रतिपत्तुरुत्पलार्थे निश्चितरूपा न बुद्धिरुपजायते, कोकिलादेरपि नीलत्वात् । अतोऽर्थान्तरसंशयव्यवच्छेदादुत्पलश्रुतेः प्रयोगः सार्थक एवेति । तदसम्यक् प्रकृतार्थानमिज्ञतयाऽभिधानात् । विधिशब्दार्थपक्षे हि सामानाधिकरण्यादि नोपपद्यत इत्येतदत्र प्रकृतम् । यदि चोत्पलशब्दः संशयव्यवच्छेदायैव व्याप्रियते न द्रव्यप्रतिपत्तये, न तर्हि विधिः शब्दार्थः स्यात्, उत्पलशब्देन भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादनात् । परस्परविरुद्धं चेदममिधीयते -नीलशब्देनोत्पलादिकं द्रव्यममिधीयते, अथ च प्रतिपत्तुस्तत्र निश्चयो न जायत