________________
पलिकासमेतः। व्यवच्छेद्यानुत्पलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानं परिनिश्चितात्मकं प्रतीयते । तेन परस्परं यथोक्तबुद्धिप्रतिबिम्बकापेक्षया व्यवच्छेद्यव्यवच्छेदकभावान्नीलोत्पलशब्दयोर्विशेष्यविशेषणभावो न विरुध्यते । द्वाभ्यां वाऽनीलानुत्पलव्यावृत्तैकप्रतिबिम्बात्मकवस्तुप्रतिपादनादेकार्थवृत्तितया सामानाधिकरण्यं च भवतीति समुदायार्थः । अवयवार्थस्तूच्यते-प्लवमानमिति । अलभमानप्रतिष्ठं संशयरूपमिति यावत् । पिकशब्दः कोकिलपर्यायः । शेषं सुवोधम् । स्यादेतदस्मत्पक्षेऽपि सामानाधिकरण्यादिरविरुद्ध एवेत्यत आह-परपक्षे त्वित्यादि । तव्यवस्थेति । तस्स सामानाधिकरण्यादेर्व्यवस्था तद्व्यवस्था ॥ ११०२ ॥ ११०३ ॥ ११०४ ॥ कथं दुर्घटेयाह-तथाहीत्यादि ।
तथाोकेन शब्देन सर्वथोक्तं खलक्षणम् । तथाचाभिहिते तस्मिन्कस्माद्भेदान्तरेऽमतिः॥ ११०५ ॥ यदर्थमपरः शब्दः प्रयुज्येतात्र वस्तुतः।
सर्वथाऽभिहिते नो चेत्तदने प्रसज्यते ॥ ११०६ ॥ ( विधिशब्दार्थवादिपक्षे नीलादिशब्देनैवैकेनोत्पलादिस्खलक्षणेऽमिहिते किमुत्पलमाहोस्विदञ्जनमित्येवमज्ञानं विशेषान्तरे न प्राप्नोति, सर्वात्मना तस्य वस्तुनः प्रतिपादितत्वात् । एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाताज्ञातत्वविरोधात् । तदर्शयति-कमाझेदारतेऽमतिरिति । अमतिरज्ञानम् । कुत्सिता या मतिरमतिः । संशयो विपर्यासश्चेति यावत् । ततश्च संशयविपर्यासाभावादुत्पलादिशब्दान्तरप्रयोगाकाला प्रयोक्तुश्च न प्राप्नोतीति दर्शयति-यदर्थमित्यादि । यदर्थमिति । यस्या अमतेनिवृत्त्यर्थमित्यर्थः । अथापि स्यात्-तद्वस्त्वेकदेशेनाभिहितं न सर्वात्मना, तेन स्वभावान्तराभिधानायापरः शब्दोऽन्वेष्यत एवेत्यत आह-सर्वथेत्यादि । न होकस्य वस्तुन एकदेशाः सन्ति, येनैकदेशेनाभिधानं स्यात् , एकत्वानेकत्वयोः परस्परपरिहारस्थितलक्षणत्वात् । ततश्च यावन्तश्चैकदेशास्तावन्त्येव केवलं भवता वस्तूनि प्रतिपादि. 'तानीति नैकमने सिध्येत् ॥ ११०५ ॥ ११०६॥
स्यादेतन्न नीलशब्देन द्रव्यमभिधीयते, किं तर्हि ? नीलाख्यो गुणस्तत्समवेता वा नीलत्वजातिः, उत्पलशब्देनाप्युत्पलजातिरेवोच्यते, न द्रव्यं, तेन मिन्नामिधानादुत्पलशब्दान्तराकाडा युज्यत एवेत्यत आह-नीलजातिरित्यादि ।