________________
तस्वसहाहा।
... यदुतम्-'अथान्यापोहवद्वस्तु वाच्यमित्यभिधीयते” इति अत्राह नस्वन्यापोहबदित्यादि।
नत्वन्यापोहबद्वस्तु वाच्यममाभिरिष्यते । व्यावृत्तादन्यतोऽभावान्नान्याद्यावृत्तिरस्ति नः ॥१०९९॥" तत्पारतज्यदोषोयं जाताविव न संगतः। अवदातमिति प्रोक्ते शब्दस्यार्थेऽपृथक्त्वतः ॥ ११००॥ विशेषणविशेष्यत्वसामानाधिकरण्ययोः।
तस्मादपोहे शब्दार्थे व्यवस्था न विरुध्यते ॥ ११०१॥ यदि हि व्यावृत्ताद्भावाव्यावृत्ति मान्या भवेत्तदा स्यात्तद्वत्पक्षोदितदोषप्रसङ्गः, यावताऽन्यतो व्यावृत्ताद्भावानास्माकमन्या व्यावृत्तिरस्ति, अपि तु व्यावृत्त एव भावो भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तथाऽभिधीयते । तेन यथाजातौ प्राधान्येन वाच्यायां पारतज्येण तद्वतोऽमिधानात्तद्गतभेदानाक्षेपात्तेन सह सामानाधिकरण्यादेरभावप्रसङ्ग उक्ता, तद्वदपोहपक्षे नावतरति व्यतिरिक्तान्यापोहवतोऽनमिधानात् । तदर्शयति-तत्पारतव्यदोषोयमित्यादि । तदिति । तस्मात् । अवदातमिति प्रोक इति । विशुद्धधियाऽऽचार्यदिकागेन प्रोक्तेऽपोहलक्षणे शब्दार्थे । अत्र कारणमाह-अपृथक्त्वत इति । तस्यान्यापोहलक्षणस्य शब्दार्थस्याऽन्यापोढात्पदार्थादपृथक्त्वाव्यतिरेकादिति यावत् । विशेषणविशेष्येत्यादि । सुबोधम् ॥ १०९९ ॥ ॥ ११०० ॥ ११०१॥ यथा च न विरुध्यते सामानाधिकरण्यादि तथा दर्शयन्नाह केवलादित्यादि ।
केवलानीलशब्दादेविशिष्टं प्रतिबिम्बकम् । कोकिलोत्पलभृङ्गादौ प्लवमानं प्रवर्तते ॥ ११०२॥ पिकाञ्जनाद्यपोहेन विशिष्टविषयं पुनः । तदिन्दीवरशब्देन स्थाप्यते परिनिश्चितम् ॥ ११०३ ॥ सामानाधिकरण्यादिरेवमस्मिन्न बाधितः ।
परपक्षे तु सर्वेषां तद्व्यवस्थातिदुर्घटा ॥ ११०४॥ तवाहिनीलमित्युक्ते पीतादिव्यावृत्तान्यपदार्थव्यवसायिभ्रमरकोकिलाचनाविषु संशय्यमानरूपं विकल्पप्रतिबिम्बकमुदेति । तबोत्पलशब्देन कोकिलादिभ्यो