________________
पविकासमेतः।
የያ गमेऽपि खगतमन्यत्किचित्प्रतिनियतमनर्थेऽर्थाध्यवसायिरूपस्य विज्ञानस्यावश्यमङ्गीकर्तव्यमिति दर्शयति-तेष्विति । कल्पनोपरचितेष्वर्थेषु । तदिति । तस्मात् । तस्य वा हेतोय॑मिचारित्वम् ॥ १०९४ ॥ #. "विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते” इत्यत्राह-विधिरूपश्चेत्यादि ।
विधिरूपश्च शब्दार्थो येन नाभ्युपगम्यते । तदाभं जायते चेतः शब्दादावसायि हि ॥ १०९५ ॥ खार्थाभिधाने शब्दानामादन्यनिवर्तनम् ।
तद्योगो व्यतिरेकोऽपि मम तत्पूर्वको ह्यसौ ॥ १०९६ ॥ न यस्माभिः सर्वथा विधिरूपः शब्दार्थो नाभ्युपगम्यते, येनैतद्भवताऽनिष्टप्रसङ्गापादनं क्रियते । यावता शब्दादर्थाध्यवसायिनश्चेतसः समुत्पादात्सांवृतो विधिरूपः शब्दार्थोऽभीष्यत एव । तत्त्वतस्तु न किंचिद्वाच्यमस्ति शब्दानामिति विधिरूपस्तात्त्विको निषिध्यते । तेन सांवृतस्य विधिरूपस्य शब्दार्थस्येष्टत्वात्स्वार्थामिधाने विधिरूपे सत्यन्यव्यतिरेकस्य सामर्थ्यादधिगतेर्विधिपूर्वको व्यतिरेको युज्यत एव।।१०९५॥ ॥१०९६॥ __ स्यादेतद्यदि विधिरूपः शब्दार्थोऽभ्युपगम्यते, कथं तर्हि हेतुमुखे लक्षणकारेणासम्भवो विधेरित्युक्तमित्यत आह-असम्भव इत्यादि ।
असम्भवो विधेरुक्तः सामान्यादेरसम्भवात् ।
शब्दानां च विकल्पानां वस्तुनो विषयत्वतः ॥ १०९७ ॥ सामान्यलक्षणादेर्वाच्यस्य वाचकस्य च परमार्थतोऽसम्भवाच्छब्दानां विकल्पानां च वस्तुतः परमार्थतो विषयासम्भवात्परमार्थमाश्रित्य विधेरसम्भव उक्त आचार्यत्यविरोधः ॥ १०९७ ॥ "अपोहमात्रवाच्यत्व"मित्यादावाह-नीलोत्पलादीत्यादि ।
नीलोत्पलादिशब्देभ्य एक एवावसीयते ।
अनीलानुत्पलादिभ्यो व्यावृत्तं प्रतिविम्बकम् ॥ १०९८ ॥ एकमेवानीलानुत्पलव्यावृत्तमाकारमुभयरूपं प्रतिबिम्बकं नीलोत्पलशब्दो वदति नाभावमात्रम् , अतः सबलार्थाभिधायित्वमध्यवसायवशान्नीलोत्पलादिशब्दानामस्त्येवेति तदनुरोपासामानाधिकरण्यमुपपद्यत एव ॥ १०९८ ॥