________________
२५९
तत्त्वसहः।
व्यापकत्ववियोगत इति । क्षणिकत्वेन सङ्केतव्यवहाराप्तकालव्यापकत्वाभावास्खलक्षणस्येत्यर्थः । स्यादेतन्नास्मामिस्तात्त्विको वाच्यवाचकभावो निषिध्यते । किं तर्हि तात्त्विकीमपोहयोरवस्तुतामाश्रित्य सांवृतमेव गम्यगमकत्वं निषिध्यते, न भाविकम् , तेन न हेतोरसिद्धता नापि सिद्धसाध्यता प्रतिज्ञादोषो भविष्यति ॥१०९०॥'
द्वयोरपि सांवृतत्वे तात्त्विकत्वे चाश्रीयमाणे स्यादेतदोषद्वयमित्यत आह-तद्गम्यगमकत्वं चेत्यादि ।
तद्गम्यगमकत्वं चेत्सांवृतं प्रतिषिध्यते। तात्त्विकी समुपाश्रित्य विनिवृत्त्योरवस्तुताम् ॥ १०९१॥ तथापि व्यभिचारित्वं दुर्वारमनुषज्यते ।
विकल्परचितैरथैः शन्दैस्तद्वाचकैरपि ॥१०९२॥ एवं सति हेतोरनैकान्तिकता, कल्पनारचितेषु महाश्वेतादिष्वर्थेषु तद्वाचकेषु च शब्देषु परमार्थतो वस्तुत्वाभावेऽपि सांवृतस्य वाच्यवाचकभावस्य दर्शनात् । तद्दर्शयति-विकल्परचितैरित्यादि ॥ १०९१ ॥ १०९२ ॥ __ स्यादेतत्-तत्रापि महाश्वेतादिषु सामान्यं वाच्यं वाचकं च परमार्थतोऽत्येव । ततो न तैर्व्यभिचार इत्याशङ्कयाह-न हीत्यादि ।
न हि तेष्वस्ति सामान्यं वाच्यं तस्य च वाचकम् ।।
न वाचकत्वं शब्दस्य क्षणभङ्गि खलक्षणम् ॥ १०९३ ॥ सामान्यपरीक्षायां सामान्यस्य विस्तरेण निरस्तत्वान्न तेषु सामान्यं वाच्यं वाचकं चास्तीत्यनैकान्तिकता हेतोः । तस्येति । सामान्यस्य । वाचकमित्यत्रापि सामान्यमिति प्रकृतेन सम्बध्यते । स्यादेतद्यद्यपि तत्र वस्तुभूतं नास्ति वाच्यं, वाचकं तु महाश्वेता दिशब्दस्खलक्षणमस्त्येवेत्यत आह-न वाचकत्वं शब्दस्येत्यादि । सर्वपदार्यव्यापिनः क्षणभङ्गस्य प्रतिपादितत्वान्न शब्दखलक्षणस्य वाचकत्वं, क्षणभङ्गिवेन तस्य सङ्केतासम्भवात् । व्यवहारकालानन्वयाचेति प्रतिपादितम् ॥ १०९३ ॥ तस्मादित्यादिनोपसंहरति ।
तमात्तद्वयमेष्टव्यं प्रतिबिम्बादि सांवृतम् ।
तेषु तद्व्यभिचारित्वं दुर्निवारमवस्थितम् ।। १०९४ ॥ यमिति । वाच्यं वाचकं च । प्रतिबिम्बादीत्यादिशब्देन निराकारखानाभ्युप