________________
पत्रिकासमेतः। यथोक्तम्-'न सवस्तुनि सा मता" इति तदसिद्धमनैकान्तिकं चेति दर्शयत्राह -अवस्तुविषयेऽप्यस्तीत्यादि ।
अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता। विचित्रकल्पनाभेदरचितेष्विव वासना ॥ १०८६ ॥ ततश्च वासनाभेदारेदः सद्रूपतापि च ।
प्रकल्प्यते ह्यपोहानां कल्पनारचितेष्विव ॥ १०८७ ॥ अवस्तुविषयं चेतो नास्तीत्येतदसिद्धम् । तथाहि-उत्पाद्यकत्वा(ल्प ?)विषयसमु. दूतवस्त्वाकारसमारोपेण प्रवर्तत एव चेतः । तच्चानागतसजातीयविकल्पोत्पत्तयेऽनन्तरचेतसि वासनामाधत्त एव । यतः पुनरपि सन्तानपरिपाकवशात्प्रबोधकं प्रत्ययमासाद्य तथाविधमेव चेतः समुपजायते, तद्वदपोहानामपि परस्परतो भेदः सद्रूपता च कल्पनावशाद्भविष्यतीत्यनैकान्तिकता । अवयवार्थस्तु सुबोधत्वान विभक्तः ॥ १०८६ ॥ १०८७ ।।
यञ्चोक्तं भवद्भिः-"शब्दभेदोऽपि तन्निमित्तो न लभ्यत” इति, तत्राह-यादृश इत्यादि ।
यादृशोऽर्थान्तरापोहो वाच्योऽयं प्रतिपादितः।
शब्दान्तरव्यपोहोऽपि ताहगेवावगम्यताम् ॥ १०८८॥ यादृश इति । प्रतिबिम्बात्मा । तस्य च प्रतिबिम्बान्तराद्भेदः स्फुटतरमेव संवेचत इति । अतो विस्तरेण यदुक्तं तत्सर्वमसङ्गतमिति भावः ॥ १०८८ ॥ न गम्यगमकत्वं स्यादित्यादिप्रयोगे प्रतिविधानमाह-वस्त्वित्यादि ।
पस्त्वित्यध्यवसायत्वान्नावस्तुस्वमपोहयोः ।
प्रसिद्धं सांवृते मार्गे तात्त्विके त्विष्टसाधनम् ॥ १०८९॥ यद्यवस्तुत्वादिति सामान्येनोपादीयते तदा हेतुरसिद्धः, यतः प्रतिविम्बात्मनोवाच्यवाचकापोहयोर्बाह्यवस्तुत्वेन भ्रान्तैरध्यवसितत्वात्सांवृतं वस्तुत्वमस्त्येव।।१०८९॥
अथ पारमार्थिकमवस्तुत्वमाश्रित्य हेतुरमिधीयते तदा सिद्धसाध्यता । नहि परमार्थतोऽस्मामिः किंचिद्वाच्यं वाचकं चेष्यते । एतदेव दर्शयति-न वाध्यमित्यादि ।
न वाच्यं वाचकं वापि परमार्थेन किश्चन । क्षणभङ्गिषु भावेषु व्यापकत्ववियोगतः ॥१०९० ॥
४