________________
तत्त्वसहः ।
. एतदेव स्पष्टीकुर्वनाह-यो नामेत्यादि ।
यो नाम न यदात्मा हि स तस्यापोह उच्यते ।
न भावोऽभावरूपश्च तदपोहे न वस्तुता ॥ १०८२ ॥ तदपोह इति । तस्याभावस्यैवमपोहे सति न वस्तुता प्राप्नोति ॥ १०८२ ॥
अत्रोभयपक्षप्रसिद्धोदाहरणोपदर्शनेनानैकान्तिकतामेव स्फुटयन्नाह-प्रकृतीशादिजन्यत्वमित्यादि।
प्रकृतीशादिजन्यत्वं वस्तूनां नेति चोदिते।
प्रकृतीशादिजन्यत्वं नहि वस्तु प्रसिद्ध्यति ॥ १०८३ ॥ तथाहि प्रकृतीश्वरकालादिकृतत्वं भावानां भवद्भिर्मीमांसकैरपि नेष्यत एव । तस्य च प्रतिषेधे सत्यपि यथा न वस्तुत्वमापद्यते तथाऽपोह्यत्वेऽप्यभावस्य वस्तुत्वापत्तिर्न भविष्यतीत्यनेकान्तः ॥ १०८३ ॥
यदुक्तम्-'तत्रासतोऽपि वस्तुत्वमिति क्लेशो महान्भवेत्” इति । तदप्यनेनैवानैकान्तत्वप्रतिपादनेन प्रतिविहितमिति दर्शयति-नातोऽसतोऽपीत्यादि ।
नातोऽसतोऽपि भावत्वमिति क्लेशो न कश्चन ।
तस्य सिद्धौ च सत्ताऽस्ति सा चासत्ता प्रसिध्यति ॥१०८४॥ "तदसिद्धौ न सत्तास्ति नचासत्स प्रसिद्ध्यती"त्यत्राह-तस्य सिद्धौ च सत्ताऽस्तीत्यादि । तस्याभावस्य यथोक्तेन प्रकारेण सिद्धौ सत्यामपि भावस्य सत्ता सिध्यत्येव तस्य स्वस्वभावव्यवस्थितत्वात् । या चाभावस्य यथोक्तेन प्रकारेण सिद्धिः सैवासत्तेति प्रसिद्ध्यति । एतच्च प्रतिसमाधानस्य समानत्वादिति कृत्वाऽत्रैव प्रतिविहितम् ॥ १०८४ ॥
इदानीं यथानुक्रममेव प्रतिसमाधानमाह । तत्र यदुक्तम् "अभावस्य च योऽमा• ब"इत्यादि, तत्राह-अगोत इत्यादि ।
अगोतो विनिवृत्तिश्च गौर्विलक्षण इष्यते ।
भाव एव ततो नायं गौरगोमें प्रसज्यते॥१०८५॥ भाव एव स चेदित्येतनानिष्ठत्वापादनमिष्टलात् । तथाहि-अगोरूपादश्वादेर्गोर्भावविशेषरूप एव विलक्षण इज्यते, नाभावात्मा, तेन भाव एव भवेत् । अगोतश्च गो_लक्षण्यस्पष्टत्वादगोर्न गोत्वप्रसङ्गः॥ १०८५ ॥