________________
पखिकासमेतः। मिश्रीकरणम् । तेन परमार्थतो यद्यपि व्यावृत्तितद्वतोरभेदस्तथापि कल्पनारचितं भेदमाश्रित्य विशेष्यविशेषणभावो भविष्यति ॥ १०७५ ॥ १०७६ ॥ १०७७ ॥ । यत्रोक्तम्-"यदा धीशब्दवाच्यत्वान्न व्यक्तीनामपोह्यते" इत्यादि । तत्राह'प्रतिभासश्चेत्यादि।
प्रतिभासश्च शब्दार्थ इत्याहुस्तत्त्वचिन्तकाः । दृश्यकल्पाविभागज्ञो लोको बायं तु मन्यते ॥१०७८ ॥ तस्यातोऽध्यवसायेन व्यक्तीनामेव वाच्यता।
तत्त्वतश्च न शब्दानां वाच्यमस्तीति साधितम् ॥१०७९॥ व्यक्तीनामवाच्यत्वादित्यसिद्धम् । तथाहि-यद्व्यक्तीनामवाच्यत्वमस्माभिर्वर्णितं तत्परमार्थचिन्तायाम् , न पुनः संवृत्त्यापि, संवृत्त्या तु व्यक्तीनामेव वाच्यत्वमविचाररमणीयतया प्रसिद्धमित्यसिद्धो हेतुः । दृश्यः बाह्यः स्खलक्षणात्मा, (कल्पः-) विकल्यो विकल्पज्ञानपरिवर्ती प्रतिभासः । अथ पारमार्थिकमवाच्यत्वं हेतुत्वेनोपादीयते तदाऽपोयत्वमपि व्यक्तीनां परमार्थतो नेष्टमित्यतः सिद्धसाध्यतेति दर्शयति -तत्त्वतश्चेत्यादि ॥ १०७८ ॥ १०७९ ॥ इस्थमित्यादिना हेतोरसिद्धतामेव निगमयति ।
इत्थं च शब्दवाच्यत्वाद्यक्तीनामस्त्यपोथता।
सामान्यस्य तु नापोहो न चापोहेऽपि वस्तुता ॥ १०८० ॥ यथोक्तम्-"तदाऽपोह्यो न सामान्यं तस्यापोहाच वस्तुता।” इति, तत्राप्यपो. ह्यत्वादित्यस्य हेतोरसिद्धत्वमनैकान्तिकत्वं चेति दर्शयति सामान्यस्येत्यादिना । अपोह इति । व्यक्तीनामेवापोहस्य प्रतिपादितत्वात् । न चापोहेऽपि वस्तुतेति । साध्यविपर्यये हेतोर्बाधकप्रमाणाभावादिति भावः ॥ १०८० ॥ परोक्तं "नापोह्यत्वमभावाना"मित्यादि, तत्राह--नाभाव इत्यादि ।
नाभावोऽपोद्यते येवं नाभावोऽभाव इत्ययम् ।
भावस्तु न तदात्मेति तस्येष्टैवमपोह्यता ॥ १०८१ ॥ अभावो नाभाव इत्येवमभावो नापोयते येनाभावरूपतायास्त्यागः स्यात् । किं वर्हि १ । भावो यः स विधिरूपत्वादभावरूपविवेकेनावस्थित इति सामर्थ्यादपोसत्वं वस्थाभावस्पेष्टम् ॥ १०८१ ॥