________________
तत्त्वंसह यति-तेन वात्मनेति । ननु बाधान्तरनिवृत्ति यवस्तुगतो धर्मः, सा कथं प्रतिबिम्बाधिगमे हेतुभावं करणभावं वा प्रतिपद्यत इत्यत्राह-यदि वस्तु विजातीयादित्यादि । यदि हि विजातीयात्पदार्थाद्व्यावृत्तं वस्तु न स्यात्तदा न तत्प्रतिविम्बात्मकं तथा विजातीयपरावृत्तवस्त्वात्मना व्यवसीयेत, तस्मादर्थान्तरपरावृत्तेर्हेतुभावः करणभावश्च युज्यत इति भावः ॥ १०७४ ॥ __ "नचान्यरूपमन्यादृकुर्याज्ज्ञानं विशेषणम्" इत्यादावाह-अगोनिवृत्तिरन्यत्वमित्यादि।
अगोनिवृत्तिरन्यत्वं तस्य चात्मगतैव सा। भेदोक्तावप्यभावस्तु केवलो न निवर्तते ॥१०७५॥ तद्विशेषणभावेऽपि वस्तुधीन विहीयते। कल्पनानिर्मितं चेदमभेदेऽपि विशेषणम् ॥ १०७६ ॥ सोपकृष्य ततो धर्मः स्थापितो भेदवानिव ।
येन दण्डादिवत्तस्य जायते हि विशेषणम् ॥ १०७७॥ यदि खन्यव्यावृत्ति वरूपा वस्तुनो विशेषणत्वेनाभिप्रेता स्यात्तदैतत्सर्व दूषणमुपपद्यते, यावता वस्तुस्वरूपैवान्यनिवृत्तिर्विशेषणत्वेनोपादीयते, तेन विशेषणानुरूपैव विशेष्यबुद्धिर्भवत्येव । तथाहि अगोनिवृत्तिा गोरभिधीयते साऽवादिभ्यो गोर्यदन्यत्वं तत्स्वभाव नान्या । ततश्च यद्यप्यसौ व्यतिरेकेणागोनिवृत्तिोरित्यमिधीयते भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां, तथापि परमार्थतस्तस्य गोरात्मगतैव सा, यथाऽन्यत्वम्, नान्यत्वं नामान्यस्माद्वस्तुनोऽन्यत्, अपितु तदेव । अन्यथा तद्वस्तु ततोऽन्यस्मिन्न सिद्ध्येत् । तत्-तस्मात् , विशेषणभावेऽप्यन्यव्यावृत्तेविशेष्ये वस्तुधीर्भवत्येव । स्यादेतद्व्यतिरिक्तमेव हि विशेष्याद्विशेषणं लोके प्रसिद्धम् , यथा दण्डः पुरुषस्य, व्यावृत्तिश्याव्यतिरिक्ता वस्तुनः, तत्कथमसौ तस्य विशेषणं युज्यत इत्याह
-कल्पनेत्यादि । नहि परमार्थेन न किंचित्कस्यचिद्विशेषणं युक्तम् , अनुपकारकस्य विशेषणत्वायोगात्, उपकारकत्वे चाङ्गीक्रियमाणे कार्यकाले कारणस्यानवस्थानादयुगपत्कालभाविनोर्न विशेषणविशेष्यभावो युक्तः, युगपत्कालभावित्वेतु तदानीं सर्वात्मना परिनिष्पत्तेर्न परस्परमुपकारोऽस्तीति न युक्तो विशेषणविशेष्यभावः । वत्तस्मात्सर्वभावानां स्वस्वभावस्थितत्वेनायाशलाकाकल्पत्वात्केवलं कल्पनयाऽमीषां