________________
· तस्वसह। .. खत एव हि गवादयो भावा मिनप्रत्यवमर्श जनयन्तो विमागेन सम्यनिधिताः। वेषु व्यवहारार्थ व्यवहर्टमिर्यथेष्टं शब्दोऽसिद्धः प्रयुज्यते । तथाहि-यदि मित्रव. स्तुखरूपं प्रतिपत्त्यर्थमन्यपदार्थग्रहणमपेक्षते तदा स्यादितरेतराश्रयदोषः, यावताs. न्यग्रहणमन्तरेणैव मिन्नं वस्तु संवेद्यते, तस्मिन्भिन्नाकारप्रत्यवमर्शहेतुतया विभागेन सिद्धे सति गौरगौरिति च यथेष्टं सङ्केतः क्रियत इति कथमितरेतराश्रयत्वं भवेत् । वित्ताविति । वित्त्यर्थम् ॥ १०६४ ॥ १०६५ ॥ यथोक्तं "नाधाराधेयवृत्त्यादि” ( इति ) तत्राह-अवेद्यबाह्यतत्त्वापीत्यादि ।
अवेद्ययावतत्त्वाऽपि प्रकृष्टोपलवादियम् । खोल्लेखं बाह्यरूपेण शब्दधीरध्यवस्यति ॥ १०६६ ॥ एतावत्क्रियते शब्दार्थ शब्दाः स्पृशन्त्यपि ।
नापोहेन विशिष्टश्च कश्चिदर्थोऽभिधीयते ॥१०६७ ॥ नहि परमार्थेन कश्चिदपोहेन विशिष्टोऽर्थः शब्दैरभिधीयते । यतः प्रतिपादितमेतत् , यथा न किंचिदपि शब्दैर्वस्तु संस्पृश्यते, कचिदपि सामग्र्यभावादिति । तथाहि शाब्दी बुद्धिरवाह्यार्थविषयापि सती वोल्लेखं वाकारं बाह्यार्थतयाऽध्यवस्थन्ती जायते, न परमार्थतो वस्तुस्वभावं स्पृशति, यथातत्त्वमनध्यवसायात् ॥ १०६६ ॥ ॥ १०६७॥
यद्येचं कथमाचार्येणोक्तं नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहुरित्यत आह-अर्थान्तरेत्यादि।
अर्थान्तरनिवृत्त्याऽहुर्विशिष्टानिति यत्पुनः ।
प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः ॥ १०६८ ॥ कोऽसावर्थो विवक्षित इत्याह-अन्यान्यत्वेनेत्यादि ।
अन्यान्यत्वेन ये भावा हेतुना करणेन वा । विशिष्टा भिन्नजातीयैरसङ्कीर्णा विनिश्चिताः ॥१०६९॥ । वृक्षादीनाहतान्ध्वानस्तद्भावाध्यवसायिनः ।
ज्ञानस्योत्पादनादेतज्जात्यादेः प्रतिषेधनम् ॥१०७०॥ द्विविधो पर्थो बाटो बुद्ध्यारूढश्च । तत्र बाये न परमार्थतोऽभिधानं शब्दैः, केवलं तदध्यवसायिविकल्पोत्पादादुपचारादुक्तं शब्दोऽर्थानाहेति । उपचारस्य च