________________
विकासमेका तस्येति । गोत्वस्य । स एवेति । सावलेयादिर्न पुनरवः । ययेवं सत्यपि भेदे सामान्यमन्तरेणापि तुल्यप्रत्यवमर्शोत्पादने सावलेयादिरेव शको न तुरङ्गमः इत्ययममत्पक्षो न विरुष्यत एव ॥ १०५९ ॥ * ततश्च किं जातमित्याह-तादृगित्यादि । ।
तादृक्प्रत्यवमर्शच विद्यते यत्र वस्तुनि ।
तत्राभावेऽपि गोजातेरगोऽपोहः प्रवर्तते ॥ १०६०॥ . यत्र साबलेयादौ वस्तुनि तादृक्-गौौरिति, प्रत्यवमर्श:-प्रत्ययो जायते । तत्रै. वासत्यामपि गोजातौ वस्तुभूतायामगोपोहः प्रतिबिम्बात्मा प्रवर्तते ॥ १०६० ॥ यञ्चोक्तमिन्द्रियैरित्यादि, तदसिद्धमिति दर्शयन्नाह-अगोभिन्नं चेत्यादि ।
अगोभिन्नं च यद्वस्तु तदळवसीयते। प्रतिबिम्बं तदध्यस्तं खसंवित्त्याऽवगम्यते ॥१०६१ ॥ इदं दृष्ट्वा च लोकेन शब्दस्तत्र प्रयुज्यते ।
संबन्धानुभवोऽप्यस्य व्यक्तं तेनोपपद्यते ॥१०६२॥ तत्र स्खलक्षणात्मा तावदपोह इन्द्रियैरवगम्यत एव । यत्स्वार्थप्रतिबिम्बात्माऽपोहः स परमार्थतो बुद्धिस्वभावत्वात्स्वसंवेदनप्रत्यक्षत एव सिद्धः । चकारोऽनुक्तार्थसमुबये । तेन प्रसज्यात्मापि सामर्थ्यात्प्रतीयत एव न तदात्मा परात्मेति दर्शितं भवति । तेनेदमेव स्खलक्षणादिरूपमपोहं दृष्ट्वा शब्दो लोकेन प्रयुज्यते, नतु सामान्य वस्तुभूतं, तस्यासत्त्वादप्रतिभासनाच्च । यदेव च दृष्ट्वा लोकेन शब्दः प्रयुज्यते, तेनैव तस्य सम्बन्धोऽवगम्यते नान्येनातिप्रसङ्गात् ॥ १०६१ ॥ १०६२ ॥ यदुक्तम् "अगोशब्दामिधेयत्वं च कथं पुन"रिति, अत्राह-तादृगित्यादि ।
ताहक्मत्यवमर्शश्च यत्र नैवास्ति वस्तुनि ।
अगोशब्दाभिधेयत्वं विस्पष्टं तत्र गम्यते ॥१०६३ ॥ ५ यबोकं सिद्धश्चागौरपोोतेत्यादि तबाह-गावोगावश्चेत्यादि ।
गावोगावश्च संसिद्धा भिन्नप्रत्यवमर्शतः। शब्दस्तु केवलोऽसिद्धो यथेष्टं संप्रयुज्यते ॥ १०६४ ॥ न बन्यग्रहणं वस्तु भिन्नं विसावपेक्षते । अन्योन्याश्रयदोषोऽयं तस्मादमिनिरास्पदः॥ १०६५ ॥