________________
बसतो व्यावृत्तं स्खलक्षणमतादूप्यासत्सर्व स्थिरादपि व्यावृत्तं, यथा बुद्धिदीपादयः । तथाचेदं शब्दादिखलक्षणमसद्रूपं न भवतीति । अतोऽमुना न्यायेन विशेषासंस्पर्शात्स्खलक्षणेनान्वयः क्रियमाणो न विरुध्यते । अयं च सत्त्वादित्यस्य हेतोरन्वयो दर्शितः ॥ १०५५ ॥ १०५६ ॥ ___ यद्येवं स्खलक्षणेनैवान्धयः, कथमिदानी सामान्यलक्षणविषयमनुमानं सिध्यतीत्यत
आह-अविवक्षितभेदं चेत्यादि । ... अविविक्षतभेदं च तदेव परिकीर्तितम् ।
सामान्यलक्षणत्वेन नानिष्टेरपरं पुनः ॥१०५७ ॥ तदेव हि खलक्षणमविवक्षितभेदं सामान्यलक्षणमित्युक्तम् । सामान्येन-भेदापरामर्शन, लक्ष्यते-व्यवसीयत इति सामान्यलक्षणम् । नापरं पुनरिति । तीर्थिकामिमतम् , तस्यानिष्टत्वात् । यथोक्तम्-"तस्यैव स्वपररूपाभ्यां गतेर्मेयद्वयं मतम्” इति । तथाऽपरमुक्तम्-'अतद्रूपपरावृत्तवस्तुमात्रसमाश्रयात् । सामान्यविषयं प्रो लिङ्ग भेदाप्रतिष्ठितेः ॥इति । तेन साहचर्यमपि लिङ्गशब्दयोः स्खलक्षणेनैव कथ्यते । नचाप्यदर्शनमात्रेणास्माभिर्विपक्षे लिङ्गस्याभावोऽवसीयते । किं तर्हि १ अनुपलम्भविशेषाविति भावः ॥ १०५७ ॥ यत्रोक्तं "साबलेयाच भिन्नत्व"मित्यादि, तबाह-शबलापत्यत इत्यादि ।
शबलापत्यतो भेदे बाहुलेयाश्वयोः समे।
तुरङ्गपरिहारेण गोत्वं किं तत्र वर्तते ॥१०५८ ॥ इदं हि भवान्वक्तुमर्हति, साबलेयाच बाहुलेयाश्च तुल्येऽपि भेदे सति किमिति तुरम्मपरिहारेण गोत्वं तत्रैव साबलेयादौ वर्त्तते नाश्व इति ॥ १०५८ ॥ .
स्यादेतत्-किमत्र वक्तव्यं, तस्य हि गोत्वस्यामिव्यक्तौ साबलेयादिरेव समर्थो नाश्वाविरतस्तत्रैव तद्वर्त्तते नान्यत्र । मचायं पर्यनुयोगो युज्यते, कस्मात्तस्यामिव्यको स एव साबलेयादिः समर्थो भवति, (इति) यतो वस्तुस्वभावप्रतिनियमोऽयं, नहि वस्तूनां स्वभावः पर्यनुयोगमर्हति । तेषां खहेतुपरम्पराकतत्वात्स्वभावभेदप्रतिनियमस्येति, अत्राह-तस्य व्यकावित्यादि ।
तस्य व्यको समर्थात्मा स एवेति यदीप्यते। तुल्यमलवमशेऽपि स शक्तो न तुरनमः ॥ १०५९ ॥