________________
पविकासमेतः। कस्य सामान्यरूपस्यान्वयो नास्ति, तथाप्यमिन्नप्रत्यवमर्शहेतवो ये ते प्रसिद्धसारूप्या भवन्ति, ये तु विपरीतास्ते विपरीता इति ॥ १०५० ॥
स्यादेतत्-तस्यैवैकप्रत्यवमर्शस्य हेतवोऽन्तरेण सामान्यमेकं कथमा मिनाः "सियन्तीत्यत आह–एकप्रत्यवमर्श हीत्यादि ।
एकप्रत्यवमर्श हि केचिदेवोपयोगिनः ।
प्रकृत्या भेदवत्त्वेऽपि नान्य इत्युपपादितम् ॥ १०५१ ॥ प्रतिपादितमेतत्सामान्यपरीक्षायाम् , यथा धात्र्यादयोऽन्तरेणापि सामान्यमेकार्थक्रियाकारिणो भवन्ति, तथैव प्रत्यवमर्शहेतवो मिन्ना अपि भावाः केचिदेव भविज्यन्तीति ॥ १०५१ ॥ नचान्वयविनिर्मुक्तेत्यावावाह-अतद्रूपेत्यादि ।
अतद्रूपपरावृत्तं वस्तुमानं खलक्षणम् ।
यत्नेन क्रियमाणोऽयमन्वयो न विरुध्यते ॥ १०५२ ॥ यद्यपि सामान्य वस्तुभूतं नास्ति, तथापि विजातीयव्यावृत्तवलक्षणमात्रेणैवान्वयः क्रियमाणो न विरुध्यते ॥ १०५२ ॥ कथमित्याह यस्मिन्नित्यादि ।
यस्मिन्नधूमतो भिन्न विद्यते हि खलक्षणम् । तस्मिन्नननितोऽप्यस्ति परावृत्तं खलक्षणम् ॥ १०५३ ॥ . यथा महानसे चेह विद्यतेऽधूमभेदि तत् ।
तस्मादननितो भिन्न विद्यतेऽत्र खलक्षणम् ॥ १०५४ ॥ यस्मिन्निति । प्रदेशे । इह च विद्यते खलक्षणमधूमतो भेदीति पक्षधर्मोपदर्शनम्। तस्मादित्यादिना प्रमाणफलोपदर्शनम् । यदि वाऽ(यद्वाऽ ?)वयवपश्चकमपि स्वलक्षनान्वये क्रियमाणे शय्यो(क्यो ?)पदर्शनमिति दर्शयति ॥ १०५३ ॥ १०५४ ॥ इदं च कार्यहेतावुक्तम् । स्वभावहेतावाह-असत इत्यादि ।
असतो नरशृङ्गादेर्यच भिन्नं खलक्षणम् । बुद्धिदीपादिवत्सर्वं व्यावृत्तं तत्स्थिरादपि ।। १०५५ ॥ असदुपं तथा चेदं न शन्दादिखलक्षणम् । इत्य निर्दिष्टभेदेन भवत्येवान्वयोमुना ॥ १०५६ ॥