________________
3
त्यादि ।
तसङ्ग्रहः ।
ताथ व्यावृत्तयोऽर्थाना कल्पनामात्रनिर्मिताः । नापोह्याधारभेदेन भिद्यन्ते परमार्थतः || १०४६ ।।
यदि हि पारमार्थिकोऽपोह्यभेदेनाधार मेदेनापोहमेदोऽभीष्टः स्यात्तदेतदूषणं स्यात्, यानता कल्पनया सजातीयविजातीयपदार्थभेद निबन्धना व्यावृत्तयो मिन्नाः कल्प्यन्ते न परमार्थतः ।। १०४६ ॥
ताश्च कल्पनावशाद्व्यतिरिक्ता एव वस्तुनो भासन्ते न परमार्थत इति दर्शयतितासां हीत्यादि ।
तासां हि बाह्यरूपत्वं कल्पितं तन्न वास्तवम् । भेदाभेदौ च तत्त्वेन वस्तुन्येव व्यवस्थितौ ॥ १०४७ ॥ कस्माद्वास्तवं न भवतीत्याह - भेदाभेदौ चेत्यादि ॥ १०४७ ॥ परमार्थतस्तु विकल्पा एव मिद्यन्त इति दर्शयति । स्वबीजाने केत्यादि । स्वबीजानेकविश्लिष्टवस्तुसङ्केतशक्तितः ।
विकल्पास्तु विभिद्यन्ते तद्रूपाध्यवसायिनः ॥ १०४८ ॥ नैकात्मतां प्रपद्यन्ते न भिद्यन्ते च खण्डशः । स्वलक्षणात्मका अर्था विकल्पः प्लवते त्वसौ ॥ १०४९ ॥ स्वबीजं – वातादिविकल्पवासना, अनेकस्माद्विलिष्टं वस्तु च सङ्केतचेति विग्रहः,
-
1
तेषां शक्तिः — सामर्थ्यम्, ततो विजातीयानेकपदार्थव्यावृत्तवस्तु व्यवसायिनो विकल्पा मिद्यन्ते । नत्वर्थाः । तथाहि — वृक्षत्वादिसामान्यरूपेण नैकात्मतां धवादयः प्रतिपद्यन्ते नापि क्षणिकात्मकादिधर्मभेदेन खण्डशो मिद्यन्ते । केवलं विकल्प एव तथा प्लवते नत्वर्थः । यथोक्तम् – “संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः । रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः || ” इति ।। १०४८ ।। १०४९ ।। यथोक्तं—“नचाप्रसिद्धसारूप्यानि "त्यादि, तत्राह - एक धर्मान्वयासत्वेऽपी
एकधर्मान्वयासत्त्वेऽप्यपोह्यापोहगोचराः ।
बैलक्षण्येन गम्पन्ते भिन्नप्रत्यवमर्शतः ॥ १०५० ॥
अपोशश्चापोहगोचराश्चेति विग्रह: । तत्रापोहा अश्वादयः, गोशब्दस्य तदपोहेन प्रवृत्तत्वात् । अपोहगोचराः शाबलेयादयः, तद्विषयत्वादगोमोहस्य । तेन यद्यप्ये