________________
पविकासमेतः। तत्कार्यहेतुविश्लेषात्कचिछुतिरिहोच्यते।
अश्रावणं यथा रूपं विद्युद्वाऽयनजा यथा ॥ १०४२॥ वौ-पूर्वोत्तौ, कार्यहेतू येषां ते तथोक्ताः । तेभ्यो विश्लेषो-व्यावृत्तिः । का "पुनरसौ श्रुतिरित्याह-अश्रावणमित्यादि । श्रोत्रज्ञानफलशब्दव्यवच्छेदेनाश्रावणं रूपमित्युच्यते । तथा प्रयत्नकारणघटादिपदार्थव्यवच्छेदेन विद्युदप्रयनजेत्यभिधीयते ॥ १०४२ ॥
एवमन्तरेणापि सामान्यादिकं वस्तुभूतं व्यावृत्तिकृतमेव शब्दानां भेदेन निवेशनमिति प्रतिपाद्य पर्यायत्वप्रसङ्गाभावं दर्शयन्नाह-इत्यादिनेत्यादि ।
इत्यादिना प्रभेदेन विभिन्नार्थनिबन्धनाः। व्यावृत्तयः प्रकल्प्यन्ते तनिष्ठाः श्रुतयस्तथा ॥ १०४३ ॥ यथासङ्केतमेवातोऽसङ्कीर्णार्थाभिधायिनः ।
शब्दा विवेकतो वृत्ताः पर्याया न भवन्ति नः ॥ १०४४ ॥ आदिग्रहणेनावस्थाविशेषवाचका बालादिशब्दा नैरात्म्यादिशब्दाश्च गृह्यन्ते । विभिन्नार्थनिबन्धना इति । विभिन्नस्ततस्ततो व्यावृत्तोऽर्थो निबन्धनं यासां व्यावृतीनां तास्तथोक्ताः । तथेति । व्यावृत्तिवत् । तनिष्ठा इति । व्यावृत्तार्थनिष्ठाः । प्रणालिकया तथाविधपदार्थाधिगतिहेतुत्वात् । श्रुतय इति । शब्दाः ॥ १०४३ ॥ ॥ १०४४ ॥ .. स्यादेतत्-माभूत्पर्यायत्वमेषाम् , अर्थभेदस्य परिकल्पितत्वात् , सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्यविशेषाभ्यां कथमेषां सिद्ध्यतीत्यत आह-बहल्पेत्यादि ।
बह्वल्पविषयत्वेन तत्सङ्केतानुमानतः।
सामान्यभेदवाच्यत्वमप्येषां न विरुध्यते॥१०४५ ॥ वृक्षशब्दो हि सर्वेष्वेव धवखदिरपलाशादिष्ववृक्षव्यवच्छेदमात्रानुमानं प्रतिबिम्बकं जनयति । तेनास्य बहु(विष)यत्वात् सामान्यं वाच्यमुच्यते । धवादिशब्दस्य तु खदिरादिव्यावृत्तिः कतिपयपादपावसायिविकल्पोत्पादकत्वाद्विशेषो वाच्य उच्यते ॥१०४५॥ . "ननु चापोलभेदेने सादावाह-ताश्चेत्यादि ।