________________
तत्त्वसहः ।
तेन विनापि सामान्य वस्तुभूतं सामान्यवचना घटादयः सिख्यन्तीति निगमयत्राह-तत्रेत्यादि ।
तत्र सामान्यवचना उक्ताः शब्दा घटादयः।
विजातीयव्यवच्छिन्नप्रतिबिम्बैकहेतवः ॥ १०३८॥ एकस्मिन्नपि वस्तुन्यन्तरेणापि सामान्यविशेषमसङ्कीर्णानेकशब्दप्रवृत्तिर्भवत्येवेति दर्शयन्नाह-तथेत्यादि ।
तथाऽनेकार्थकारित्वादेको नैक इवोच्यते । ___ अतत्कार्यपरावृत्तिबाहुल्यपरिकल्पितः ॥ १०३९ ॥ कश्चिदेकोऽपि सन्प्रकृत्यैव सामग्र्यन्तरान्तःपातवशादनेकार्थक्रियाकारी भवति । तत्रान्तरेणापि वस्तुभूतसामान्यादिधर्मभेदमतत्कार्यपदार्थभेदबाहुल्यादनेकधर्मसमारोपादनेका श्रुतिनिवेश्यते ॥ १०३९ ॥ अत्रोदाहरणमाह-यथेत्यादि ।
यथा सप्रतिघं रूपं सनिदर्शनमित्यपि। -
प्रयत्नानन्तरज्ञातो यथा वा श्रावणो ध्वनिः ॥ १०४० ॥ स्वदेशे परस्योत्पत्तिप्रतिबन्धकारित्वाद्रूपं सप्रतिघमित्युच्यते । निदर्शनं-चक्षुविज्ञानं, तजनकत्वात् , सह तेन वर्तत इति सनिदर्शनम् । द्वितीयमप्युदाहरणमाह
-प्रयतेत्यादि । यथाहि ध्वनिरेकोऽपि सन्प्रयत्नान्तरज्ञानफलतया प्रयत्नानन्तरं झात इत्युच्यते । श्रोत्रज्ञानफलत्वाञ्च श्रावणः । श्रवणं हि श्रुतिः, श्रोत्रज्ञानमिति यावत् । तत्प्रतिभासितया तत्र भवः श्रावणः । यद्वा श्रवणेन गृह्यत इति श्रावणः ॥ १०४०॥ ___ एवमतत्कार्यभेदेनैकस्मिन्नप्यनेका श्रुतिर्निवेश्यत इति दर्शितम् , इंदानीमतत्कारणभेदेनापि कचित् श्रुतिर्निवेश्यत इति दर्शयति-अतत्कारणभेदेनेत्यादि ।
अतत्कारणभेदेन कचिच्छन्दो निवेश्यते ।
प्रयत्नोत्थो यथाशब्दो भ्रामरं वा यथा मधु ॥१०४१॥ भ्रामरमिति । भ्रमरकृतम् , क्षुद्रादिकृतान्मधुनो व्यावृत्तम् ॥ १०४१ ।। एवमतत्कार्यकारणपदार्थभेदादेकस्मिन्वस्तुनि श्रुतिभेदो दर्शितः । इदानीं तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छयाऽन्तरेणापि सामान्यं श्रुतेर्मेदनिवेशनं दर्शबनाइ-तत्कार्येत्यादि ।