________________
पत्रिकासमेतः। लोचनादौ यथा रूपविज्ञानकफले कचित् ।
कवियदि श्रुतिं कुर्याद्विनैकेनानुगामिना ॥ १०३५ ॥ इच्छामात्रप्रतिबद्धो हि शब्दानामर्थेषु नियोगः, तथाहि-चक्षुरूपालोकमनस्कारेषु 'रूपविज्ञानैकफलेषु यदि कश्चिदिच्छावशाद्विनाप्येकेनानुगामिना सामान्येन ००० इत्यादिकां श्रुतिं निवेशयेत् , तत्किं तस्य कश्चित्प्रतिरोद्धा भवेत् । नहि तेषु लोचनाविवेकं चक्षुर्विज्ञानजनकत्वं नाम सामान्यमस्ति । यतः सामान्यविशेषसमवाया अपि भवद्भिश्चक्षुर्विज्ञानजनका इष्यन्ते । तेषु न सामान्यसमवायोऽस्ति निःसामान्यत्वात्सामान्यस्य, समवायस्य च द्वितीयसमवायाभावात् ॥ १०३५ ।।
ननु च घटादिरेककार्यकारी कथमुच्यते । यावता तत्कार्यमुदकधारणादि तद्राहक च विज्ञानं स्खलक्षणभेदाद्भिद्यत एवेत्यत आह-घटादीनां चेत्यादि ।
घटादीनां च यत्कार्य जलादेर्धारणादिकम् । यच तद्विषयं ज्ञानं भिन्नं यद्यपि तद्वयम् ॥ १०३६ ॥ एकप्रत्यवमर्शस्य हेतुत्वादेकमुच्यते ।
ज्ञानं तथापि तद्धेतुभावादर्थी अभेदिनः ॥ १०३७ ॥ यद्यपि स्खलक्षणभेदात्तत्कार्य भिद्यते । तथापि ज्ञानाख्यं तावत्कार्यमेकार्थाध्यवसायिपरामर्शज्ञानहेतुतयैकमित्युच्यते तस्य च ज्ञानस्य हेतुभावार्था अपि मधूदकाचाहरणादिलक्षणा घटादिव्यक्तिलक्षणाश्चाभेदिन इत्युच्यन्ते, तद्दर्शयति-तथापि तहेतुभावादर्था अभेदिन इति । उच्यत इति प्रकृतं वचनपरिणामाद्बहुवचनान्तं सम्बध्यते । अपिशब्दो मिन्नक्रमोऽर्थाइत्यनन्तरं सम्बध्यते । तेनैकार्थक्रियाकारित्वमुपपद्यत एव । ननु चैवमनवस्था प्राप्नोति । तथाहि-योऽसौ प्रत्यवमर्शप्रत्ययस्तस्यापि स्खलक्षणभेदेन मिद्यमानत्वादेकत्वमसिद्धम् । ततश्च तस्याप्येकत्वसिद्धये परमेकाकारप्रत्यवमशकार्यमनुसरतोऽनवस्था स्यात् । ततश्चानवस्थितैककार्यतया न कचिदेकश्रुति, निवेशः सिद्धयेत् । नैतदस्ति । नहि प्रत्यवमर्शप्रत्ययस्यैककार्यतयैकत्वमुच्यते । कि तर्हि ? एकार्थाध्यवसायितया, तेन नानवस्था भविष्यति । खत एवं सर्वेषां प्रत्लवमर्शप्रत्ययानामेकार्याध्यवसायित्वस्य सिद्धत्वात् । तेनायमर्थो भवति । एकाकारप्रत्यपमहेतुत्वात् शानाख्यं कार्यमेकमित्युच्यते, तद्धेतुभावाचार्या अपि घटादय एकरकव्यपदेशभाज इति ॥ १०३६ ॥ १०३७ ॥