________________
तरवसाहः।
यथैव पपोहस्य निःस्वभावत्वादविद्यमानरूपस्य परस्परतो भेदो नास्त्रीत्युच्यते तथैवाभेदोऽपीति तत्कथमभिन्नार्थाभावे पर्यायत्वासचनं क्रियते ॥ १०३० ॥ एतदेव स्पष्टीकुर्वनाह-अभेदो ह्येकरूपत्वमिति ।
अभेदो खेकरूपत्वं नीरूपेषु च तत्कुतः।
एकत्वेऽर्थस्य पर्यायाः प्राप्नुवन्ति च वाचकाः ॥१०३१ ॥ ___ यदि नाम नीरूपेऽवेकरूपत्वं नास्ति तथापि किमिति पर्यायता न भवेदिति चेदाह-एकत्वेऽर्थस्येत्यादि ॥ १०३१ ॥ __ स्यादेतथदि नाम नीरूपेष्वेकरूपत्वं भावतो नास्ति तथापि काल्पनिकमस्ति तेन पर्यायताप्रसजनं युक्तमेवेत्यत आह-रूपाभावेऽपीत्यादि ।
रूपाभावेऽपि चैकत्वं कल्पनानिर्मितं यथा ।
विभेदोऽपि तथैवेति कुतः पर्यायता ततः॥१०३२॥ रूपाभावेऽपीति । स्वभावाभावेऽपीत्यर्थः ॥ १०३२ ॥ यद्येवं पर्यायापर्यायव्यवस्था कथं शब्दानां प्रसिद्धत्याह-भावतस्त्वित्यादि ।
भावतस्तु न पर्याया नापर्यायाश्च वाचकाः ।
नोकं बाह्यमेतेषामनेकं चेति वर्णितम् ॥ १०३३ ॥ यदि हि परमार्थतो मिन्नममिन्नं वा किंचिद्वाच्यं वस्तु शब्दानां स्यात्तदाऽपर्यायता पर्यायता वा भवेत् । यावता स्खलक्षणं जातिस्तद्योगो जातिमांस्तथेत्यादिना वर्णितं यथैषां न किंचिद्वाच्यमस्तीति ॥ १०३३ ॥ कथं सा तर्हि पर्यायादिव्यवस्थेत्याह-किंस्वित्यादि ।
किंत्वनेकोऽपि यद्येककार्यकारी य ईक्ष्यते ।
तत्रैकधर्मारोपेण श्रुतिरेका निवेश्यते ॥१०३४ ॥ तत्रान्तरेणापि सामान्य सामान्यशब्दत्वव्यवस्थाया इदं निबन्धनम् , यद्हूनामेकार्थक्रियाकारित्वम् । प्रकृत्यैव हि केचिद्भावा बहवोऽप्येकार्थक्रियाकारिणो भवन्ति । तेषामेकार्थक्रियासामर्थ्यप्रतिपादनाय व्यवहर्तृमिलाघवार्थमेकरूपाध्यारोपेणैका श्रुतिनिवेश्यते । यथा बहुषु रूपादिषु मधूदकाद्याहरणलक्षणैकार्थक्रियासमर्थेषु घट इत्येषा श्रुतिनिवेश्यते ॥ १०३४ ॥
कथं पुनरैकेनानुगामिना विना बहुष्वेका श्रुतियुज्यत इत्याह-लोचनादावि. त्यादि।