________________
पषिकासमेतः।
३२३ सुबोधम् ॥ १०२६ ॥ यत्रोक्तम् "शब्दार्थोऽर्थानपेक्ष” इति तत्राह-तस्येत्यादि ।
तस्य नार्थानपेक्षत्वं पारम्पर्यात्तदागतेः। - तेनात्मना च वस्तुत्वं नैवास्तीत्युपपादितम् ॥ १०२७ ॥ .. यत्र हि पारम्पर्याद्वस्तुनि प्रतिबन्धोऽस्ति तस्य भ्रान्तस्यापि सतो विकल्पस्य मणिप्रभायां मणिबुद्धिवन्न बाह्यार्थानपेक्षत्वमस्ति । अतोऽसिद्धं बाह्यार्थानपेक्षत्वम् । यदुक्तं "वस्तुरूपा च सा बुद्धिः” इत्यादि, तत्राह-तेनेत्यादि । यद्यपि वस्तुरूपा सा बुद्धिस्तथापि तस्यास्तेन बाह्यात्मना बुद्ध्यन्तरात्मना च वस्तुत्वं नास्तीत्युपपादितम् "न तदात्मा परात्मा" इत्यादिना । तेन बुद्धेर्बुद्ध्यन्तरापोहो न गम्यत इत्यसिद्धं सामर्थेन गम्यमानत्वादिति भावः ॥ १०२७ ॥ "असत्यपि च बाह्यार्थे' इत्यत्राह-प्रतिबिम्बात्मक इत्यादि ।
प्रतिबिम्बात्मकोऽपोहः पदादप्युपजायते ।
प्रतिभाख्यो झटित्येव पदार्थोऽप्ययमेव नः ॥ १०२८ ॥ यथैव हि प्रतिबिम्बात्मकप्रतिभाख्योऽपोहो बाह्यार्थोऽस्माभिरुपवर्णितस्तथैव पदार्थोऽपि । यस्मात्पदादपि प्रतिबिम्बात्मकोऽपोह उत्पद्यत एव तेनास्माकमयमेव प्रतिबिम्बात्मकोऽपोहः पदार्थोऽपि मतो न केवलं वाह्यार्थ इत्यपिशब्दः । तेन विप्रति. पत्तेरभावानोपालम्भो युक्त इति भावः ॥ १०२८ ॥
"बुज्यन्तराव्यवच्छेदो नच बुद्धेः प्रतीयत” इत्यत्राह-स्वरूपोत्पादमात्रादीत्यादि ।
खरूपोत्पादमात्राद्धि नान्यमंशं बिभर्ति सा।
बुद्ध्यन्तराद्यवच्छेदस्तेन वुद्धेः प्रतीयते ॥ १०२९॥ यत एव हि स्वरूपोत्पादमात्रादन्यमंशं सा बुद्धिर्न बिभर्ति तत एव स्वस्वभावव्यवस्थितत्वादुद्धर्बुद्ध्यन्तराट्यवच्छेदः प्रतीयते, अन्यथा ह्यन्यस्य रूपं बिभ्रती कथं ततो व्यवच्छिन्ना प्रतीयते । तेनेति । स्वव्यतिरिक्तपदार्थस्वरूपानवधारणेन।।१०२९॥ मिन्नसामान्यवचना इत्यादावाह-यथैवेत्यादि ।
यथैवाविद्यमानस्य न भेदः पारमार्थिकः। अभेदोऽपि तथैवेति तेन पर्यायता भवेत् ॥ १०३० ॥