________________
३२३
तत्त्वसङ्कह
. वस्त्वित्यध्यवसायाच वस्त्वित्यपि तदुच्यते ।
सटित्येव हि तज्ज्ञानं भ्रान्तं जातं खबीजतः ॥ १०२३ ॥ ननु यदि कदाचिन्मुख्यवस्तुभूतं सामान्यं बापवस्त्वाश्रितमुपलब्धं भवेत्तदा साधर्म्यदर्शनात्तत्र सामान्यं भ्रान्तिर्भवेत् , यावता मुख्यार्थासम्भवे सैव भवतां सामा-' न्यभ्रान्तिरनुपपन्नेत्याशयाह-झटित्येव हीत्यादि । झटिति-सामान्यदर्शनाद्यनपेक्ष्य द्विचन्द्रादिज्ञानादिवदन्तरुपप्लवादेतज्जातं ज्ञानम्। नहि सर्वा भ्रान्तयः साधHदर्शनादेव भवन्ति । किं तर्हि ? अन्तरुपप्लवादपीत्यदोषः ॥ १०२३ ॥ तेन सिद्धसाध्यतादोषो न भवतीति दर्शयन्नाह स एवेत्यादि ।
स एव च तदाकारशब्दार्थोऽपोह उच्यते ।
सामान्य वस्तुरूपं च तथा भ्रान्त्याऽवसायतः ॥ १०२४ ॥ स एव बुद्ध्याकारो बाह्यतयाऽध्यस्तोऽपोह इति शब्दार्थ इति बाह्यवस्तुभूतं सामान्यमिति चोच्यते । अत्र कारणमाह-तथा भ्रान्त्यावसायत इति । सामान्यरूपत्वेन वस्तुरूपत्वेन चावसायात् । शब्दार्थत्वापोहरूपत्वयोः प्रागेव कारणमुक्तम् -"बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात्समुद्भवात् । प्रतिभासान्तराद्भेदात्" इत्या. दिना ॥ १०२४॥ कस्मात्पुनः परमार्थतः सामान्यं तन्न भवतीत्याह-सामान्येत्यादि ।
सामान्यवस्तुरूपत्वं न युक्तं त्वस्य भाविकम् ।
बुद्धेरनन्यरूपं हि यायादर्थान्तरं कथम् ॥ १०२५ ॥ परमार्थतो हि बुद्धेरव्यतिरिक्तोऽसौ, तत्कथमर्थान्तरं व्रजेत् , येनार्थानां तत्सामान्यं भावतो भवेत् । यथोक्तं "ज्ञानाव्यतिरिक्तं च कथमर्थान्तरं ब्रजेत्” इति । तस्मात्सिद्धसाध्यतादोषो न भवति, न हि भवद्भिर्बुद्ध्याकारो गोत्वाख्यं सामान्यमवस्तुरूपमिष्टम् , किं तर्हि ? बाह्यशाबलेयादिगतमेकमनुगामि पारमार्थिक गोत्वादिसामान्यमुपकल्पितमतो न सिद्धसाध्यतेति भावः । यथोक्तम् "निषेधमात्ररूप"त्यादि, तस्यानभ्युपगतत्वादेव न दोषः ॥ १०२५ ॥ योदमुक्तम्- "तस्यां चाश्वादिबुद्धीनाम्” इत्यादि, तत्राह-यद्यपीयादि ।
यद्यप्यव्यतिरिक्तोऽयमाकारो बुद्धिरूपतः। तथापि बाह्यरूपत्वं भान्तैस्तस्यावसीयते ॥१०२६ ॥ .