________________
पलिकासमेतः।
३२१ पचिरेष न स्यात् । तेनापरो ध्वनिर्गोबुद्धेर्जनको न मृग्यते । तेनैव गोशब्देन गोबुद्धेजन्यमानत्वात् ॥ १०१९ ॥ ननु सानफलाः शब्दा इत्यादावाह-दिवाभोजनेत्यादि ।
दिवाभोजनवाक्यादेरिवास्यापि फलद्वयम् ।
साक्षात्सामर्थ्यतो यस्मानान्वयोऽव्यतिरेकवान् ॥ १०२०॥ यथाहि दिवा न भुङ्क्ते पीनो देवदत्त इत्यस्य वाक्यस्य साक्षादिवाभोजनप्रतिषेधः खामिधानं, गंम्यस्तु रात्रिभोजनविधिः, न साक्षात् , तद्वद्गौरित्यादेरन्वयप्रतिपादकस्य शब्दस्यान्वयज्ञानं साक्षात्फलम् , व्यतिरेकगतिस्तु सामर्थ्यात् । अत्र कारणमाह-यस्मादित्यादि । यस्मादन्वयो विधेरव्यतिरेकवान्नास्ति । किं तर्हि ? विजातीयव्यवच्छेदाव्यभिचार्येव । नहि विजातीयादव्यावृत्तस्य कस्यचित्सम्भवोऽस्ति । तेनैकस्य शब्दस्य फलद्वयमविरुद्धमेव ॥ १०२० ॥ कस्मादित्याह-नाभिमुख्येनेत्यादि ।
नाभिमुख्येन कुरुते यस्माच्छन्द इदं द्वयम् ।
खार्थाभिधानमन्यस्य विनिवृत्तिं च वस्तुनः॥ १०२१ ॥ यदि साक्षादेकस्य शब्दस्य विधिनिषेधज्ञानलक्षणं फलद्वयं युगपदमिप्रेतं भवेत्तदा स्वाद्विरोधः । यदि तु दिवाभोजनवाक्यवदेकं साक्षात् , अपरं सामर्थ्यलभ्यं फलमितीष्टं, तदा न विरोधः । यच्चोक्तं प्रागगौरिति विज्ञानमित्यादि । तदपि निरस्तम् । अनभ्युपगमात् । न ह्यगोप्रतिषेधमाभिमुख्येन गोशब्दः करोतीत्यभ्युपगतमस्माभिः । किं तर्हि ? सामर्थ्यादिति प्रतिपादितम् ॥ १०२१॥ यदुक्तमगोनिवृत्तिः सामान्यमित्यादि, तत्राह-तादृश इत्यादि ।
तादृशः प्रतिभासश्च सामान्यं गोत्वमिष्यते।
सर्वत्र शाबलेयादी समानत्वावसायतः ॥ १०२२ ॥ तादृश इति । बाह्यरूपतयाऽध्यस्तो बुद्ध्यारूढः । अत्रोपपत्तिमाह-सर्वत्रेत्यादि । सर्वत्र शाबलेयादौ गोरिति समरूपतयाऽवसानात्तेषां तत्सामान्यमित्युच्यते ॥ १०२२ ॥
बालवस्तुरूपत्वमपि तस्य भ्रान्तप्रतिपत्तृवशायवहियते, न परमार्थत इति दर्शयति-वस्त्वित्यध्यवसायाचेति ।