________________
'३२०
तत्त्वसहः। आचार्यदिशगस्योपरि यदुद्योतकरेणोक्तम्-यदि शब्दस्यापोहोऽभिधेयोऽर्थस्तदाऽभिधेयार्थव्यतिरेकेणास्य स्वार्थो वक्तव्यः, अथ स एवास्य स्वार्थस्तथापि व्याहतम् , एतदन्यशब्दार्थापोहं हि स्वार्थे कुर्वती श्रुतिरमिधत्त इत्युच्यत इति, अस्य हि वाक्यस्यायमर्थस्तदानीं भवति, अभिधानाऽभिधत्त इति । तदेतद्वाक्यार्थापरिज्ञानार दुक्तमिति दर्शयन्नाचार्यायवाक्याविरोधं प्रतिपादयति-अर्थान्तरेत्यादि ।
अर्थान्तरव्यवच्छेदं कुर्वती श्रुतिरुच्यते।
अभिवत्त इति खार्थमित्येतदविरोधि तत् ॥ १०१६ ॥ स्खलक्षणमपि हि शब्दस्योपचारात्स्वार्थ इति प्रतिपादितमतस्तस्मिन्खलक्षणात्मके खार्थेऽर्थान्तरव्यवच्छेदं प्रतिबिम्बान्तराट्यावृत्तं प्रतिबिम्बात्मकमपोहं कुर्वती जनयन्ती श्रुतिरमिधत्त इत्युच्यते इत्येतदाचार्टीयं वचनमविरोधि ॥ १०१६ ॥ बाह्यार्थेत्यादिनैतदेवाचार्यायं वचनमाचष्टे ।
बाह्यार्थाध्यवसायेन प्रवृत्तं प्रतिविम्बकम् । उत्पादयति येनेयं तेनाहेत्यपदिश्यते ॥१०१७॥ नतु खलक्षणात्मानं स्पृशत्येषा विभेदिनम्।
तन्मात्रांशातिरेकेण नास्त्यस्या अभिधाक्रिया ॥१०१८॥ अयमाचार्यस्यामिप्रायः । न शब्दस्य बाह्यार्थाध्यवसायिविकल्पप्रतिबिम्बोत्पादव्यतिरेकेणान्यो बाह्यामिधानव्यापारः सम्भवति । निर्व्यापारत्वात्सर्वधर्माणाम् । अतो बाह्यार्थाध्यवसायेन प्रवृत्तविकल्पप्रतिबिम्ब जनयन्ती श्रुतिः स्वार्थमभिधत्त इत्युच्यत इति । नतु विभेदिनं सजातीयविजातीयव्यावृत्तं स्खलक्षणमेषा स्पृशति, अकिंचित्करत्वात् । तन्मात्रांशातिरेकेणेति । तथाविधप्रतिबिम्बजनकत्वव्यतिरेकेण नापरा श्रुतेरमिधाक्रियाऽस्तीत्यर्थः ॥ १०१७ ॥ १०१८ ॥
एवमपोहस्य स्वरूपमभिधाय साम्प्रतं परोक्तानि दूषणान्युद्धर्तुमारभते । तत्र यदुक्तं "यदि गौरिति शब्दश्चेदि"त्यादि, तत्राह-तस्य चेत्यादि ।
तस्य च प्रतिविम्बस्य गतावेवानुगम्यते ।
सामर्थ्यादन्यविश्लेषो नास्यान्यात्मकता यतः॥ १०१९॥ गोबुद्धिमेव हि शब्दो जनयति, अन्यविश्लेषस्तु सामर्थ्याद्गम्यते, नतु शब्दात्, तस्य गोप्रतिबिम्बस्य प्रतिभासान्तरात्मरहितत्वात्, अन्यथा नियतरूपस्य तस्य प्रति