________________
पविकासमेतः।
३१९ तद्रूपप्रतिविम्बस्य धियः शब्दाच जन्मनि ।
वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः ॥१०१२॥ । तत्-अध्यवसितबहिर्भावत्वलक्षणं रूपं खभावो यस्य तत्तथोक्तम् , तद्रूपं च 'तत्प्रतिबिम्ब चेति समासः, तस्य तद्रूपप्रतिबिम्बस्य धियः सम्बन्धिनः शब्दाजन्मन्युत्पादे सति स वाच्यवाचकलक्षणो निरूप्यमाणः कार्यकारणभावात्मक एव जातः । तथाहि-शब्दप्रतिबिम्बस्य जनकत्वाद्वाचक उच्यते, तञ्च प्रतिबिम्ब शब्देन जन्यमानत्वाद्वाच्यम् । तेन, यदुक्तम्-"निषेधमात्रं नैवेह शाब्दे ज्ञानेऽवभासते" इति, तदसंगतम् , निषेधमात्रस्य शब्दार्थत्वानभ्युपगमादिति भावः ॥ १०१२ ॥
एवं तावत्प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरुपजन्यमानत्वान्मुख्यः शब्दार्थ इति दर्शितम् , शेषयोरप्यपोहयोगौणं शब्दार्थत्वमुपवर्ण्यमानमविरुद्धमेवेति दर्शयमाह-साक्षादित्यादि।
साक्षादाकार एतस्मिन्नेवं च प्रतिपादिते । प्रसज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते ॥१०१३ ॥ न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः। व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥१०१४ ॥ तेनायमपि शब्दस्य स्वार्थ इत्युपचर्यते।
न तु साक्षादयं शाब्दो द्विविधोऽपोह उच्यते ॥ १०१५ ।। एवं चेति । जन्यत्वेन । कस्मात्पुनः सामर्थ्येन प्रसज्यप्रतिषेधः प्रतीयत इति दर्शयमाह-न तदात्मेति । तस्य गवादिप्रतिबिम्बस्यात्मा यः परस्याश्वादिप्रतिबिम्बस्यात्मा खभावो न भवतीति कृत्वा । एवं प्रसज्यलक्षणापोहस्य नान्तरीयकतया प्रतीतेगौणं शब्दार्थत्वं प्रतिपाद्य स्खलक्षणस्यापि प्रतिपादयन्नाह सम्बन्धे सती. यादि । तत्र सम्बन्धः शब्दस्य वस्तुनि पारम्पर्येण कार्यकारणलक्षणः प्रतिबन्धः । प्रथमं यथास्थितवस्त्वनुभवस्ततो विवक्षा ततस्ताल्वादिपरिस्पन्दस्ततः शब्द इत्येवं परम्परया यदा शब्दस्य वस्तुमि खैरन्यादिभिः सम्बन्धः स्यात्तदा तस्मिन्सम्बन्धे सति विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगमो भवति । अतो द्विविधोऽपि प्रसज्यप्रतिषेधोऽन्यव्यावृत्तवस्त्वात्मा चापोहः शब्दार्थ इत्युपचर्यते । अयमिति । खलक्षणात्मा । अपिशब्दाप्रसज्यात्मा च ॥ १०१३ ।। १०१४ ॥ १०१५ ॥