________________
तत्त्वसहः।
स्पत्तेः । उपचारातु त्रिमिः । (१) कारणे कार्यधर्मारोपाद्वा, य(त)वाह अन्यव्यावृत्त वस्तुनः प्राप्तिहेतुतयेति । (२) कार्ये वा कारणधर्मोपचारात्, तदर्शयति-अश्लिष्टवस्तुद्वारा गतेरपीति । अश्लिष्टम् अन्यासम्बद्धम् , अन्यतो व्यावृ. तमिति यावत् । तदेव वस्तुद्वारमुपायः, तदनुभवबलेन तथाविधविकल्पोत्पत्तेः ।। (३) विजातीयापोहपदार्थेन सहैक्येन प्रान्तः प्रतिपतृमिरव्यवसिवत्वाचेति चतुर्थ कारणम्, तदर्शयति-विजातीयेत्यादि । अस्येति । विकल्पबुद्ध्यारूढस्यार्थप्रतिबिम्बस्य । सनिबन्धनेति । सह निबन्धनेन प्रतिभासान्तराद्भेदादिनोक्तेन चतुर्विधेन वर्त्तत इति सनिबन्धना ॥ १००७ ॥ १००८ ॥ अर्थात्मनोपोहस्य स्वरूपं दर्शयन्नाह-स्खलक्षणेऽपीत्यादि ।
खलक्षणेऽपि तद्धेतावन्यविश्लेषभावतः ॥ १००९ ॥ अन्यापोह इत्येषा संज्ञोक्ता सनिबन्धनेति प्रकृतेन सम्बन्धः । तत्र निबन्धनमाह-अन्यविश्लेषभावत इति । अन्यस्माद्विजातीयाद्विश्लेषो व्यावृत्तिस्तस्य भावात् । विजातीयविश्लेषस्य विद्यमानत्वादिति यावत् । एतेन मुख्यत एव स्खलक्षणेऽन्यापोहव्यपदेश इत्युक्तं भवति ॥ १००९॥ प्रसज्यप्रतिषेधलक्षणस्यापोहस्य स्वरूपं दर्शयति-प्रसज्येत्यादि ।
प्रसज्यप्रतिषेधश्च गौरगौर्न भवत्ययम् ।
अतिविस्पष्ट एवायमन्यापोहोऽवगम्यते ॥ १०१०॥ तदेवं त्रिविधमपोहं प्रतिपाद्य प्रकृते शब्दार्थत्वे योजयन्नाह-तत्रायमित्यादि ।
तत्रायं प्रथमः शब्दैरपोहः प्रतिपाद्यते ।
बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात्समुद्भवात् ॥१०११॥ प्रथम इति । यथोक्तार्थप्रतिबिम्बात्मा । तत्र कारणमाह-बाह्यार्थाध्यवसायिन्या इत्यादि । यदेव हि शाब्दे ज्ञाने प्रतिभासते स एव शब्दार्थो युक्तः, न चात्र प्रसज्यप्रतिषेधाध्यवसायोऽस्ति न चापीन्द्रियज्ञानवत्स्वलक्षणप्रतिभासः, किं तर्हि ? बामार्थाध्यवसायिनी केवलं शाब्दी बुद्धिरुपजायते । तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षाचदात्मतया प्रतिभासनाच्छब्दार्थो युक्तो नान्य इति भावः ॥ १०११ ॥
यश्चापि शब्दस्यार्थेन सह वाच्यवाचकमावलक्षणः सम्बन्धः प्रसिद्धो नासो कार्यकारणभावादन्योऽवतिष्ठते, अपितु कार्यकारणभावात्मक एवेति दर्शयति-तद्. पप्रतिविम्बस्येत्यादि ।