________________
पविकासमेतः।
३१७ यावत् । बुद्ध्यात्मार्थात्मभेदत इति । बुद्ध्यात्मभेदादात्ममेदादित्यर्थः । तत्र बुध्यात्मा-बुद्धिप्रतिभासोऽर्थेष्वनुगतैकरूपत्वेनाध्यवसितः, अर्थात्मा-अर्थस्वभावो विजातीयव्यावृत्तमर्थखलक्षणमित्यर्थः । अनयोर्भेदो विभाग इति समासः॥१००३॥ ॥१००४॥ तत्र बुद्ध्यात्मनः स्वरूपं दर्शयन्नाह-एकेत्यादि ।
एकप्रत्यवमर्शस्य य उक्ता हेतवः पुरा । अभयादिसमा अर्थाः प्रकृत्यैवान्यभेदिनः ॥१००५ ॥ तानुपाश्रित्य यज्ज्ञाने भात्यर्थप्रतिविम्बकम् ।
कल्पकेऽर्थात्मताऽभावेऽप्यर्थी इत्येव निश्चितम् ॥ १००६ ॥ पुरेति । पूर्व सामान्यपरीक्षायां "यथा धात्र्यभयादीना"मित्यादिनोक्ताः । तत्रोक्तम्-यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यमेकं ज्वरादिशमनलक्षणं कार्य कुर्वन्ति । तथा सावलेयादयोऽप्यर्थाः सत्यपि भेदे प्रकृत्यैकाकारप्रत्यवमर्शस्य हेतवो भविष्यन्त्यन्तरेणापि वस्तुभूतं सामान्यमिति । अभयादिसमा इति । हरीतक्यादितुल्याः । एकार्थकारितया साम्यम् । तानुपाश्रित्येति । तानभयादिसमानर्थानाश्रित्य हेतूकृत्य तदनुभवबलेन यदुत्पन्नं विकल्पकं ज्ञानं तत्र यदाकारतयार्थप्रतिबिम्बकमर्थाभासो भाति तादात्म्येन, तत्रान्यापोह इत्येषा संज्ञोक्तेति सम्बन्धः । कल्पक इति । विकल्पके, सविकल्प इति यावत् । एतच्च ज्ञान इत्यनेन समानाधिकरणम् । अर्थात्मताऽभावेऽपीति । बाह्यार्थात्मताया अभावेऽपि । निश्चितमिति । अध्यवसितम् ।। १००५ ॥ १००६ ॥ अथ कथं तस्यापोह इत्येष व्यपदेश इत्याह-प्रतिभासान्तरादित्यादि ।
प्रतिभासान्तरा दादन्यव्यावृत्तवस्तुनः । प्रासिहेतुतयाऽश्लिष्टवस्तुद्वारा गतेरपि ॥१००७॥ विजातीयपरावृत्तं तत्फलं यत्खलक्षणम् । तस्मिन्नध्यवसायावा तादात्म्येनास्य विप्लुतैः ॥१००८ ॥
तत्रान्यपोह इत्येषा संज्ञोक्ता सनिबन्धना। चतुर्भिनिमित्तैरपोह इति तस्याख्या । विकल्पान्तरारोपितप्रतिभासान्तराद्भेदेन स्वयं प्रतिभासनान्मुख्यतः । अपोहत इत्यपोहोऽन्यस्मादपोहोऽन्यापोह इति व्यु