________________
३१६.
तत्त्वसङ्ग्रहः ।
अथापोहव्युदासेन यथपोहोऽभिधीयते ।
तत्र तत्रैवमिच्छायामनवस्था भवेत्ततः ॥ ९९९ ॥ अथाप्यबाच्य एवायं यथपोहस्त्वयेष्यते । तेनान्यापोहकुच्छन्द इति बाध्येत ते वचः ॥ १००० ॥
किंचेदं तावत्प्रष्टव्यो भवति भवान्, किमपोहो वाच्योऽथावाच्य इति । वाच्यत्वे विधिरूपेण वा वाच्यः स्यादन्यव्यावृत्त्या वा । तत्र यदि विधिरूपेण तदा नैका - न्तिकः शब्दार्थोऽन्यापोहः शब्दार्थ इति । अथान्यव्यावृत्त्येति पक्षस्तदा तस्याप्यन्यव्यवच्छेदस्यापरेणान्यव्यवच्छेदरूपेणामिधानं तस्याप्यपरेणेत्यव्यवस्था स्यात् । अथावाच्यस्तदाऽन्यशब्दार्थापोहं शब्दः करोतीति व्याहन्येत ॥ ९९७ ॥ ९९८ ॥ ॥ ९९९ ।। १००० ॥
एतत्सर्वमुद्योतकरेणोक्तमुपन्यस्तम्, तत्राचार्यदिप्रागेनोक्तम्- "सर्वत्राभेदादाश्रयस्यानुच्छेदात्कृत्स्नार्थपरिसमाप्तेश्च यथाक्रमं जातिधर्मा एकत्वनित्यत्वप्रत्येकपरिसमाप्तिलक्षणा अपोह एवावतिष्ठन्ते, तस्मादुणोत्कर्षादप्यर्थान्तरापोह एव शब्दार्थः साधुरिति । एतदाशङ्क्य कुमारिल उपसंहरन्नाह - अपि चैकत्वेत्यादि ।
अपि चैकत्वनित्यत्वप्रत्येकसमवायिनः । निरुपाख्येष्वपोहेषु कुर्वतोस्तत्र कः परः ॥ १००१ ॥ तस्माद्येष्वेव शब्देषु नञ्योगस्तेषु केवलम् । भवेदन्यनिवृत्त्यंशः खात्मैवान्यत्र गम्यते ॥ १००२ ॥
1
येष्वेव शब्देषु नञयोग इति । अभक्ष्यो ग्रामसूकर इत्यादिषु । स्वात्मैवेति । स्वरूपमेव विधिलक्षणम् । अन्यत्रेति । नन्ररहिते ॥ १००१ ॥ १००२॥ एवं यथाप्रधानं परमतमाशय, अन्यापोहापरिज्ञानादित्यादिना समाधानमारभते ।
अन्यापोहापरिज्ञानादेवमेते कुदृष्टयः ।
स्वयं तुष्टा दुरात्मानो नाशयन्ति परानपि ॥ १००३ ॥ तथाहि द्विविधोऽपोहः पर्युदासनिषेधतः । द्विविधः पर्युदासोऽपि बुद्ध्यात्मार्थात्मभेदतः ॥ १००४ ॥ पर्युदासनिषेधत इति । पर्युदासान्निषेधाच पर्युदासलक्षणः प्रसज्यप्रतिषेधश्चेति