________________
३१५
विभिनोलणा: प्रामागुणमात्रामिति
पविकासमेतः। विभिन्नोऽप्याश्रितो वा स्यादथवा स्यादनाश्रितः। आश्रितत्वे गुणः प्रासो न द्रव्यवचनं ततः ॥ ९९१ ॥ अतो गौरितिशब्देन गुणमात्राभिधानतः। सामानाधिकरण्यं स्यान गौर्गच्छति तिष्ठति ॥९९२॥ अथानाश्रित एवायं यद्यर्थस्तस्य को भवेत् । येनासौ प्रतिषेधाय गौरिति व्यपदिश्यते ॥ ९९३ ॥ अथ चाव्यतिरिक्तोऽयमन्यापोहस्त्वयेष्यते ।
गौरेवायमतः प्रातः किमुक्तमधिकं ततः ॥ ९९४ ॥ चशब्दः समुचये। कस्माच भवता गौरित्येतस्य नागौरित्येषोऽपोहलक्षणः शब्वार्थ उच्यत इति वाक्यार्थः । कस्मात्पुनर्न वक्तव्या इत्याह-केनेत्यादि । इतश्चायुक्तोऽपोहो विकल्पानुपपत्तेः । तथाहि-योऽयमगोरपोहो गवि स किं गोव्यतिरिक्तः ? आहोस्विव्यतिरिक्तः ? यद्यतिरिक्तः स किमाश्रितोऽथानाश्रितः । यद्याश्रितस्तदाऽऽश्रितत्वाद्गुणः प्राप्तः, ततश्च गोशब्देन गुण एवामिधीयते नागौरिति गौस्तिष्ठति गौर्गच्छतीति सामानाधिकरण्यं न प्राप्नोति । अथानाश्रितस्तदा केनार्थेनागोरपोह इति षष्ठी स्यात् । अथाव्यतिरिक्तस्तदा गौरेवासाविति न किंचित्कृतं भवति ॥ ९८९ ॥ ॥९९० ॥ ९९१ ॥ ९९२ ॥ ९९३ ॥ ९९४ ॥
प्रतिभावमपोहोऽयमेकोऽनेकोऽपिवा भवेत् । योकोऽनेकगोयुक्तो गोस्वमेव भवेदसौ ॥ ९९५ ॥ अनेकखेऽपि चानन्त्यं पिण्डवत्संप्रयुज्यते।
तेन भेदवदेवास्य वाच्यता नोपयुज्यते ॥ ९९६ ॥ — अयं चापोहः प्रतिवस्त्वेकोऽनेको वेति वक्तव्यम् । यद्येकस्तदाऽनेकगोद्रव्यसम्बन्धी गोत्वमेवासौ भवेत् । अथानेकततः पिण्डवदानन्यादाख्यानानुपपत्तेरवाच्य • एव स्यात् ॥ ९९५ ॥ ९९६ ॥
अन्यापोहच किं वाच्यः किं वाऽवाच्योऽयमिष्यते। वाच्योऽपि विधिरूपेण यदि वाऽन्यनिषेधतः ॥ ९९७ ॥ विध्यात्मनाऽस्य वाच्यत्वे त्याज्यमेकान्तदर्शनम् । सर्वत्रान्यनिरासोज्यं शब्दार्थ इति वर्णितम् ॥ ९९८ ॥