________________
तत्त्वसङ्ग्रहः ।
-
सलाह । अपोहः शब्दार्थ इत्ययुक्तमेतत्, अध्यापकत्वात् । यत्र द्वैराश्यं भवति तत्रेतरप्रतिषेधादितरत्प्रतीयते — यथा गौरिति पदे गौः प्रतीयमानोऽगौर्निषेध्यमानः । न पुनः सर्वपदे एतदस्ति । न सर्व नाम किंचिदस्ति, यत्सर्वशब्देन निवर्येत । अथ मन्यसे —— एकाद्यसर्वं तत्सर्वशब्देन निवर्त्यत इति । तन्न, स्वार्थापवाददोषप्रसङ्गात् । एवं कादिव्युदासेन प्रवर्त्तमानः सर्वशब्दो ऽङ्गप्रतिषेधादङ्गव्यतिरिक्तस्थाविनोऽनभ्युपगमादनर्थकः स्यात् । अङ्गशब्देनैकदेश उच्यते । एवं सर्वे समुदायशब्दा एकदेशप्रतिषेधरूपेण प्रवर्त्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदायस्यानभ्युपगमादनर्थकाः प्राप्नुवन्ति । द्व्यादिशब्दानां च विषयसमुच्चयत्वादेकादिप्रतिषेधे प्रतिषिध्यमानानामर्थानामसमुच्चयत्वादनर्थकत्वम्, तद्दर्शयति न भवेयुस्तथाविधा इति । इष्टास्ते समुच्चयगोचरास्तथाविधा न भवेयुरित्यर्थः । यश्चायमगोऽपोहो गौर्न भवतीति गोशब्दस्यार्थः स किं भावोऽथाभावः ? यदि भावः स किं गौरथाऽगौरिति । यदि गौः, नास्ति विवादः । अथागौः, गोशब्दस्यागौरर्थ इत्यतिशब्दार्थको - शलम् । अथाभावः, तन्न युक्तम्, प्रैषसम्प्रतिपत्त्योरविषयत्वात् । न हि शब्दश्रवणादभावे प्रैषः सम्प्रतिपत्तिश्च भवेत् । तदेतद्दर्शयति - अभावोऽपि न युक्तोऽयमित्यादि । प्रैषणं प्रैषः, प्रतिपादकेन श्रोतुरर्थे विनियोगः, सोऽयं प्रतिपादकधर्मः । सम्प्रतिपत्तिः श्रोतृधर्मः । आदिशब्देन भावधर्माः सर्वे वाहदोहादयो गृन्ते । अपि च शब्दार्थः प्रतीत्या प्रतीयते, न च गोशब्दादभावं कश्चित्प्रतिपद्यते ॥ ९८२ ॥ ९८३ ।। ९८४ ।। ९८५ ।। ९८६ ।। ९८७ ।। ९८८ ।।
1
३१४
किंच क्रियारूपत्वादपोहस्य विषयो वक्तव्यः, तत्रागौर्न भवतीत्ययमपोहः किं गोविषयोऽथागोविषयः । यदि गौर्विषयः, कथं गोर्गव्येवाभावः । अथागौर्विषयः, कथमन्यविषयादपोहादन्यत्र प्रतिपत्तिः, नहि खदिरे च्छिद्यमाने पलाशे छिदा भवति । अथागोर्गवि प्रतिषेधो गौरगौर्न भवतीति, केनागोत्वं प्रसक्तं यत्प्रतिषिध्यत इति । तदत्र प्रथमौ विकल्पावत्यसम्बद्धाविति मत्वा तृतीयमेव दर्शयन्नाह - नागौगौरित्यादि ।
नागौगौरिति शब्दार्थः कस्माचापोह इष्यते । केन गोत्वमासक्तं गौर्येनैतदपोद्यते ॥ ९८९ ॥ अगौरपोहो यथायं गवि शब्दार्थ उच्यते । स किं गोर्व्यतिरिक्तो वाऽव्यतिरिक्त उपेयते ॥ ९९० ॥