________________
पञ्जिकासमेतः ।
३१३
शब्दार्थत्वेन विकल्पितं भवेद्यदध्यवसीयते लोकेन । एवं ह्यदृष्टारोपो दृष्टार्थापलापश्च न कृतः स्यादिति भावः । अत एव वरमित्युक्तम् । ये त्वाहुर्विकल्पप्रतिबिम्बकमेव सर्वशब्दानामर्थस्तदेव चाभिधीयते व्यवच्छिद्यत इति चोच्यत इति । तान्प्रतीदमाह — ज्ञानाकारनिषेधाच्चेत्यादि । निराकारा बुद्धिराकारवान्बाह्योऽर्थः, स च बहिर्देशसम्बन्धो विस्पष्टमुपलभ्यत इत्येवमस्माभिर्ज्ञानाकारो निषिद्धः, तस्मादान्तरस्य बुद्ध्यारूढस्याकारस्यासत्त्वात्तदभिधायकत्वं शब्दानामयुक्तम् । नापि तस्यान्तरस्यार्थस्यापोह्यत्वं युक्तम्, असत्त्वादेव । तेष्विति । प्रमेयादिशब्देषु । ये च - - एवमित्यमित्यादयः शब्दास्तेषामपि न किंचिदपोह्यमुपलभ्यते, कस्यचित्प्रतियोगिनः पर्युदासरूपस्याभावात् । अथापि स्यात् — नैवमित्यादि प्रसज्यरूपं निषेध्यं भवतीति । नैतद्स्त्युक्तमत्र । तथाहि — अत्रापि न नैवमिति निर्देशे निषेधस्य निषेधनम्, एवमित्यनिषिद्धं तु स्वरूपेणैव तिष्ठतीति सैव पूर्वोक्ता नीतिरवतरति ।। ९८० ।। ९८१ ॥ एतत्सर्वं कुमारिलोक्तमुपन्यस्तम्, साम्प्रतं सर्वशब्दस्येत्यादिनोद्योतकारोक्तमपोहदूषणमाशङ्कते—
सर्वशब्दस्य कवार्थी व्यवच्छेद्यः प्रकल्प्यते । नासर्वनाम किश्चिद्धि भवेद्यस्य निराक्रिया ॥ ९८२ ॥ एकाच सर्वमिति चेदर्थापोहः प्रसज्यते । अङ्गानां प्रतिषिद्धत्वादनिष्ठेश्चाङ्गिनः पृथक् ॥ ९८३ ॥ एवं समूहशब्दार्थे समुदायिव्यपोहतः । अन्यानिष्टेश्च सर्वेऽपि प्राप्नुवन्ति निरर्थकाः ॥ ९८४ ॥ यादिशब्दा इहेष्टाश्च ये समुच्चयगोचराः । एकादिप्रतिषेधेन न भवेयुस्तथाविधाः ॥ ९८५ ॥ नागौरिति च योऽपोहो गोशब्दस्यार्थ उच्यते । स किं भावोऽथवाऽभावो भावो गौर्वाऽथवाऽप्यगौः ॥ ९८६ ॥ गौनास्ति विवादोऽयमर्थस्तु विधिलक्षणः । अगौगशब्दवाच्यवेदतिशब्दार्थकौशलम् ॥ ९८७ ॥ अभावोऽपि न युक्तोऽयं प्रेषादीनामसम्भवात् । न हि गोशब्दतः कश्चिदभावं प्रतिपद्यते ॥ ९८८ ॥
*