________________
३१२
तत्त्वसङ्ग्रहः। कीदृशोऽपोहो भवेत् । नैव कश्चित् । प्रतिषेधद्वये विधेरेव संस्पर्शनात् । अपिच चादीनां निपातोपसर्गकर्मप्रवचनीयानां पदत्वमिष्टम् , नचैषां नवा सम्बन्धोऽस्त्यसत्त्ववचनत्वात् । तथाहि-यथा घटादिशब्दानामघट इत्यादौ नवा सम्बन्धे सत्य
र्थान्तरस्य पटादेः परिग्रहात्तद्व्यवच्छेदेन नबा रहितस्य घटशब्दस्यार्थोऽवकल्प्यते, न तथा चादीनां नचेत्यादि नवा सम्बन्धोऽस्ति । नचासम्बध्यमानस्य नबाऽपोहनं युक्तम् । अतश्चादिष्वनपोहनम् । अपोहाभाव इत्यर्थः । किंच-वाक्यार्थः कल्माषवर्णवच्छबलैकरूप इष्यते, अतस्तत्रान्यनिवृत्तिळपदेष्टुं न शक्यते । निष्पन्नरूपस्य प्रतियोगिनोऽप्रतीतेः । या चात्र चैत्र गामानयेत्यादावचैत्रादिव्यवच्छेदरूपान्यनिवृत्तिखयवपरिग्रहेण वर्ण्यते, सा पदार्थ एव स्यान्न वाक्यार्थः । तस्यानवयवस्येत्थं विवेकुमशक्यत्वादित्यव्यापिनी शब्दार्थव्यवस्था । अपि च नान्यापोहोऽनन्यापोह इत्यादौ शब्दे विधिरूपादन्यद्वाच्यं न निरूप्यते-नोपलभ्यत इत्यर्थः । तथाहिनापोहरूपमात्रं वाच्यं गम्यते, प्रतिषेधद्वयेन विधेरैवावसायात् । आदिशब्देनाऽनन्यव्यावृत्तिरनन्यव्यवच्छेद इत्यादिपर्यायग्रहणम् । ननु च नबश्चापि नया युक्तावित्यनेनैव गतत्वात्पुनरुक्तमेतत् । सत्यमेतत् । किंत्वन्यापोहः शब्दार्थ इत्येवं वादिना स्ववचनेनैव विधिरिष्ट इति ज्ञापनार्थ पुनरुच्यते । तथा ह्यन्यापोहशब्दस्यानन्यापोहशब्दार्थो व्यवच्छेद्यः, स च विधर्नान्यो लक्ष्यते । ये च प्रमेयज्ञेयामिधेयादयः शब्दास्तेषां न किंचिदपोह्यमस्ति । सर्वस्यैव प्रमेयत्वादिस्वभावत्वात् । तथाहि-यन्नाम किंचिद्व्यवच्छेद्यमेषां कल्प्यते, तत्सर्व व्यवच्छेदाकारणालम्ब्यमानं शेयादिखभावमेवावतिष्ठते, नाविषयीकृतं व्यवच्छेत्तुं शक्यते । ततश्चैषामपोझार्थाभावादव्यापिनी व्यवस्था ॥ ९७७ ॥ ९७८ ॥ ९७९ ॥
ननु हेतुमुखे निर्दिष्टम्-अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानमिति । तत्कथमव्यापित्वं शब्दार्थव्यवस्थाया इत्याह-अपोह्येत्यादि ।
अपोलकल्पनायां च वरं वस्त्वेव कल्पितम् । ज्ञानाकारनिषेधाच नान्तरार्थोऽभिधीयते ॥९८० ॥ नचाप्यपोयता तस्मानापोहस्तेषु सिद्धयति ।
एवमित्यादिशब्दानां न चापोखं निरूप्यते ॥ ९८१ ॥ यदि शेयमपि सर्व क्षेयत्वेनापोह्यमस्म कल्प्यते तदा वरं वस्त्वेव विधिरूपमेव