________________
पत्रिकासमेतः। घटादिशब्देषु निष्पन्नरूपमघटादिकं पर्युदासरूपं निषेध्यमस्ति न तथा पचतीत्यादिषु, प्रतियोगिनो निष्पन्नस्य कस्यचिदप्रतीतेः ॥ ९७४ ।। __ स्यादेतन्माभूत्पर्युदासरूपं निषेध्यं, न पचतीत्येवमादि प्रसज्यरूपं पचतीत्यादेर्निध्यं भविष्यतीत्याह-न नेति हीत्यादि ।
न नेति ह्युच्यमानेऽपि निषेधस्य निषेधनम् । पचतीत्यनिषिद्धं तु खरूपेणैव तिष्ठति ॥ ९७५ ॥ साध्यत्वप्रत्ययश्चात्र तथा भूतादिरूपणम् ।
निष्पन्नत्वादपोहस्य निर्निमित्तं प्रसज्यते ॥ ९७६ ॥ न न पचतीत्येवमुच्यमानेऽपि प्रसज्यप्रतिषेधस्य निषेधनमेवोक्तं स्यात् । ततश्च को दोष इत्याह-पचतीत्यनिषिद्धमित्यादि । प्रतिषेधद्वयस्य विधेविषयत्वात्पचतीत्येतत्स्वरूपेणैव विध्यात्मनैव तिष्ठतीति विधिरेव शब्दार्थः स्यात् । किंच-अत्र पचतीत्यादौ साध्यत्वं प्रतीयते । यस्याः क्रियायाः केचिदवयवा निष्पन्नाः केचिदनिपन्नाः सा पूर्वापरीभूतावयवा क्रिया साध्यत्वप्रत्ययविषया । तथाऽभूद्भविष्यतीत्यादौ भूतादिकालविशेषप्रतीतिरस्ति । नचापोहस्य साध्यत्वादिसम्भवः, निष्पन्नत्वादभावैकरसनेन । तस्मादपोहशब्दार्थपक्षे साध्यत्वप्रत्ययो भूतादिप्रत्ययश्च निर्निमित्तः प्राप्नोतीति प्रतीतिबाधा । भूतादिरूपणमिति । भूतादीनामवधारणं प्रत्यय इति यावत् ॥ ९७५ ॥ ९७६ ॥ पुनरप्यव्यापिनं दर्शयन्प्रतीतिबाधामेव दर्शयति-विध्यादावित्यादि ।
विध्यादावर्थराशौ च नान्यापोहनिरूपणम् । नमश्चापि नसा युक्तावपोहः कीदृशो भवेत् ॥ ९७७॥ चादीनामपि नव्योगो नैवास्तीत्यनपोहनम् । वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते ॥ ९७८ ॥ अनन्यापोहशब्दादौ वाच्यं न च निरूप्यते ।
प्रमेयज्ञेयशब्दादेरपोह्यं कुत एव तु ॥ ९७९ ॥ । आदिशब्देन निमश्रणामत्रणादीनां ग्रहणम्-अन्यापोहस्य-अन्यव्यवच्छेदस्य न निरूपणमुपलम्भोऽस्ति । "न पर्युदासरूपं हि निषेध्यं तत्र विद्यत" इत्येतत्पूर्वोक्तमेवात्र कारणमिति भावः । न न पचति देवदत्त इत्यादौ नमोऽपरेण नया योगे सति