________________
३१०
तत्त्वसन्हः। स हि व्यावृत्त्युपसर्जनं तद्वन्तमर्थमाह, न साक्षात् । ततश्च साक्षादनभिधानात्तद्गतभेदाक्षेपो नास्ति, यथा मधुरशब्देन शुक्लादेः । यद्यपि वस्तुस्थित्या शुक्लादीनां (अ)मधुरादिभेदत्वमस्ति । तथापि शब्दस्य साक्षादनिहितार्थगतस्यैव भेदस्याक्षेपसामर्थ्य न तु पारतव्येणाभिहितार्थगतस्येति भावः । ततश्च नीलादिशब्देन तद्गतभेदानाक्षे। पादुत्पलादीनामतद्भेदत्वं स्यात् , अतद्भेदत्वे च सामानाधिकरण्यं न प्राप्नोति । तेन जातिमन्मात्रपक्षे यो दोष उक्तो भवता "तद्वतो न बाधकः शब्दोऽखतत्रत्वा"दिति, स व्यावृत्तिमन्मात्रपक्षेऽपि तुल्य इति दर्शितं भवति । तथाहि-जातिमन्मात्रे शब्दार्थे-सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमाह न साक्षादिति तद्गतघटादिभेदानाक्षेपादतद्भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः, स व्यावृत्तिमन्मात्रपक्षेऽपि समानः, तत्रापि हि सच्छब्दो व्यावृत्त्युपसर्जनं द्रव्यमाह न साक्षादिति, तद्गतभेदानाक्षेपोऽत्रापि समान एव, को ह्यत्र विशेषो जातिया॑वृत्तिर्जातिमान्व्यावृत्तिमानिति ॥ ९७२ ॥ दोषान्तरमाह-लिङ्गेत्यादि ।
लिङ्गसङ्ख्यादिसम्बन्धो न चापोहस्य विद्यते।
व्यक्तेश्चाव्यपदेश्यत्वात्तवारेणापि नास्त्यसौ ॥ ९७३ ॥ लिङ्गानि-स्त्रीत्वपुंस्त्वनपुंसकानि, सङ्ख्या-एकत्वद्वित्वबहुत्वानि, आदिग्रहणेन क्रियाकालादिसम्बन्धपरिप्रहः । एमिः सम्बन्धो नास्त्यपोहस्य, अवस्तुत्वात् , एषां च वस्तुधर्मत्वात् । न च लिङ्गादिविविक्तः पदार्थः शक्यः शब्देनाभिधातुम् । अतः प्रतीतिबाधाप्रसङ्गः प्रतिज्ञाया इति भावः । अथापि स्याद्व्यावृत्त्याधारभूताया व्यक्तेवस्तुत्वाल्लिङ्गादिसम्बन्धोऽस्ति, एतद्वारेणापोहस्यापि व्यवस्थाप्यत इत्याह-व्यक्ते. श्वेत्यादि । सा हि व्यक्तिनिर्विकल्पत्वाल्लिङ्गसङ्ख्यादिसम्बन्धेन व्यपदेष्टुं न पार्यते, ततः कथमपोहे तहारेण तद्व्यवस्था सिद्ध्येत् ॥ ९७३ ॥ अव्यापित्वं चापोहशब्दार्थव्यवस्थयोर्दर्शयन्नाह-आख्यातेष्वित्यादि ।
आख्यातेषु च नान्यस्य निवृत्तिः सम्प्रतीयते ।
न पर्युदासरूपं हि निषेध्यं तत्र विद्यते ॥ ९७४ ॥ आख्यातेषु-तिङन्तेषु पचति गच्छतीत्येवमादिषु क्रियाप्रधानेषु शब्देषु, नान्यव्यवच्छेदो गम्यते, कस्मादित्याह-न पर्युदासरूपं हीत्यादि । यथा सुबन्तेषु