________________
पलिकासमेतः।
३०९ स्मिन्नर्थे वृत्तिः सम्भवति । तद्वाच्ययोरनीलानुत्पलव्यवच्छेदलक्षणयोरपोहयोभिन्नत्वात् । तथाहि-भवद्भिरेवोक्तमपोह्यभेदाद्भिन्नार्था इति । प्रयोगः-न नीलोत्पलादिशब्दाः सामानाधिकरण्यव्यवहारविषयाः, भिन्नविषयत्वात् , घटपटादिशब्दवत् । अथापि स्याद्यत्रैव ह्यनुत्पलव्युदासो वर्त्तते तत्रैवानीलव्युदासोऽपि स्थित इत्यतो नीलोत्पलशब्दवाच्ययोरपोहयोरेकस्मिन्नर्थे वृत्तेरर्थद्वारकं सामानाधिकरण्यं शब्दयोरपि निर्दिश्यत इत्यत आह–अर्थतश्चेत्यादि । तदिति । सामानाधिकरण्यम् । तयोरिति-अनीलानुत्पलव्युदासयोः । नैव काचिद्वास्तवी तयोराधेयता सम्भवति, नीरूपस्य कचिदवस्थानासम्भवात् , यथा वन्ध्यापुत्रस्येति भावः ॥ ९७० ।।
किंच-भवतु नाम नीलोत्पलादिष्वर्थेषु तयोराधेयता, तथापि सा विद्यमानापि सती न शब्दैः प्रतिपाद्यत इति दर्शयति-न चेत्यादि ।
न चासाधारणं वस्तु गम्यतेऽन्यच नास्ति ते ।
अगम्यमानमैकार्थ्यं शब्दयोः कोपयुज्यते ॥ ९७१ ॥ - यस्मात्तदेव तावदसाधारणं नीलोत्पलादि वस्तु न शब्देन गम्यते, तत्र सर्वविकल्पानां प्रत्यस्तमयादित्युक्तम् । ततश्च तस्मिन्नाधारभूते वस्तुन्यज्ञाते तदधिकरणयोरपोहयोस्तदाधेयता कथं ग्रहीतुं शक्यते, धर्मिग्रहणनान्तरीयकत्वाद्धर्मग्रहणस्येति भावः । अथापि स्यादसाधारणार्थव्यतिरेकेण तयोरन्यदेवाधिकरणमस्त्यतोऽयमदोष इत्यत आह-अन्यच्चेत्यादि । त इति । त(व) । स्यादेतद्यदि नामैकार्थ्य न गम्यते, तथापि वस्तुस्थित्याऽवस्थितमेवेत्याह-अगम्यमानमित्यादि । ऐकार्यमिति । सामानाधिकरण्यम् । कोपयुज्यत इति । न कचिदित्यर्थः । सतोऽप्यज्ञातस्य शाब्दे व्यवहारेऽनङ्गत्वात् ।। ९७१ ॥
अथापि स्यात्-यदि व्यावृत्तिमात्रं शब्देनोच्येत तदाऽयं दोषः स्यात् , यावता व्यावृत्तिमद्वस्तु वाच्यम् , अतो व्यावृत्तिद्वयोपाधिकयोः शब्दयोरेकस्मिन्नपोहवति वस्तुनि वृत्तेः सामानाधिकरण्यमस्येवेत्यत आह-अथेत्यादि ।
अथाप्यपोहवद्वस्तु वाच्यमित्यभिधीयते ।
तत्रापि परतत्रत्वाद्व्यासिः शब्देन दुर्लभा ॥ ९७२ ॥ तत्रापीति । अपोहवति वस्तुनि वाच्यत्वेनाङ्गीक्रियमाणेऽनीलादिभेदानामुत्पला. दीनां नीलादिशब्दाप्तिराक्षेपो दुर्लभः, किं कारणम् ? परतत्रत्वान्नीलादिशब्दस्य,