________________
तत्त्वसङ्ग्रहः। अपोहमानवाच्यत्वं यदिहाभ्युपगम्यते । नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु ॥ ९६७ ॥ विशेषणविशेष्यत्वसामानाधिकरण्ययोः। न सिद्धिन बनीलखव्युदासेऽनुत्पलच्युतिः ॥ ९६८ ॥ . नापि तत्रेतरस्तस्मान्न विशेष्यविशेषणे।
शब्दयोर्नापि ते स्यातामभिधेयानपेक्षयोः ॥९६९ ॥ पूर्वमर्थयोरेव विशेष्यविशेषणभावो निरस्तः । इदानीं शब्दयोरपि निरस्थत इति न पुनरुक्तता । तत्र परस्परं व्यवच्छेदकभावो विशेषणविशेष्यभावः, स च वाक्य एव व्यवस्थाप्यते, यथा नीलमुत्पलमिति । तथा व्यधिकरणयोरपि भवति, यथा राज्ञः पुरुष इत्यादौ । मिन्ननिमित्तप्रयुक्तयोस्त्वेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् , तब नीलोत्पलमित्यादौ वृत्तावेव व्यवस्थाप्यते । तत्र नीलोत्पलादिशब्देषु शबलार्थामिधायिषु यदेतत्सामानाधिकरण्यादि, तस्य न सिद्धिः । शबलोर्थ:-चित्रः, यथोकम्--"न हि तत्केवलं नीलं न च केवलमुत्पलम् । समुदायाभिधेयत्वात्" इति । कस्मासिद्धिर्न भवतीत्याह-न हीत्यादि । यस्मादनीलत्वन्युदासेऽनुत्पलव्युदासो नास्ति । तत्र-अनुत्पलच्युतौ । इतरः-नीलब्युदासः । कचिदितरेति स्त्रीलिङ्गस्य पाठः । स च्युतिशब्दापेक्षया द्रष्टव्यः । इतरा-अनीलच्युतिरित्यर्थः । नानयोः परस्परमाधाराधेयसम्बन्धोऽस्ति, नीरूपत्वादिति यावत् । नचासति सम्बन्धे विशेप्यविशेषणभावो युक्तोऽतिप्रसङ्गादित्युक्तम् । एतेन युष्मन्मते शबलामिधायित्वमेव नास्ति, सर्वेषामभाववाचित्वादित्युक्तं भवति । तस्मान्न विशेष्यविशेषणे युक्ते । स्यादेतन्माभूदर्थयोर्विशेष्यविशेषणभावस्तद्वाचकयोस्तु शब्दयोः किमिति न भवतीत्यत आह-शब्दयोरित्यादि । अमिधेयद्वारेणैव हि तदभिधायिनोः शब्दयोर्विशेष्यवि. शेषणभाव उपचर्यते, अमिधेये च तस्यासम्भवे सत्यमिधानेऽपि कुतस्तदारोपः ॥ ९६७ ॥ ९६८ ॥ ९६९ ॥ सामानाधिकरण्यं दूषयन्नाह सामानाधिकरण्यं चेति ।
सामानाधिकरण्यं च न भिन्नवादपोहयोः । . अर्थतवेत्तदिव्येत कीदृश्याघयता तयोः॥९७० ॥ एकस्मिन वृत्तौ सत्यां सामानाधिकरण्यं भवति । न च नीलोत्पलशब्दयोरेक